SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ॥ अथ त्रयस्त्रिंशत्तमः सर्गः प्रारभ्यते ॥ तथाऽस्यामवसर्पिण्यां, प्रथमश्चक्रवर्तिषु । अभूद्भरत इत्यादिदेवस्य तनुजोऽग्रिमः॥ १॥ सुमङ्गलाकुक्षिरत्नं, पश्चचापशतोच्छ्रितः । खर्णरुक् चतुरशीतिपूर्वलक्षसुजीवितः ॥२॥ साधिताशेषषट्खण्डः, स चादर्शगृहेऽ-18 न्यदा । निरङ्गुलीयकां पश्यन्नङ्गुली पर्यभावयत् ॥३॥ शरीरासारतां द्राक् च, लेभे केवलमुज्वलम् । प्रदत्तसाधुवेषश्च, शक्रेणागत्य वन्दितः॥४॥युग्मम् । सहस्रर्दशभी राज्ञां, सेवितः स्वीकृतवतैः । विहृत्य लक्षं पूर्वाणामवाप परमं पदम् ॥५॥ इति भरतः॥ __ अयोध्यायां नगर्यां च, द्वितीयश्चक्रवर्त्यभूत् । वर्णवर्णः सार्द्धचतुर्धनुःशतसमुच्छ्रितः ॥ ६॥ द्वासप्ततिपूर्व| लक्षजीवितः सगराह्वयः । सुमित्रविजयक्ष्मापयशोमत्योस्तनूद्भवः ॥ ७ ॥ युग्मम् । अजितस्याहतश्चासौ, |पितृव्यतनयोऽभवत् । यतः सुमित्रविजयो, जितशत्रुश्च सोदरौ ॥ ८॥ सोऽपि वपुत्रमरणप्राप्तवैराग्यवासनः।। अजितस्याहंतः पार्थे, परिव्रज्य शिवं ययौ ॥९॥ इति सगरः॥ __ अभून्नगर्या श्रावस्त्यां, समुद्रविजयो नृपः। भद्रा प्रियतमा तस्य, मघवा तनयस्तयोः ॥१०॥ द्विचत्वारिंशदध्यर्द्धा, धनुषां वपुरुच्छ्यः । लक्षाणि पञ्च वर्षाणामायुष्कं चास्य कीर्तितम् ॥११॥ संसारानित्यतां ध्यायन्, जातवैराग्यवासनः । सोऽगाद्गृहीतचारित्रः, स्वर्गलोकं तृतीयकम् ॥ १२ ॥ इति मघवा ॥ Jain Education a l For Private Personal Use Only sinelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy