________________
लोकप्रकाशे
३२ सर्गे
॥ ५२३ ॥
गणधराः
उपसर्ग १ स्तथा गर्भापहारो २ ऽभांविता सभा ३ । चमरोत्पतनं ४ चन्द्रसूर्यावतरणं ५ तथा ॥ २९ ॥ २ आश्चर्याणि हरेरमरकङ्कायां गमनं ६ स्त्रीजिनेश्वरः ७ । हरिवंशकुलोत्पत्ति ८ रर्चा चासंयतात्मनाम् ९ ॥ ३० ॥ साष्टकश- वीरतस्य सिद्धिर्ज्येष्ठावगाहनावताम् । अनन्तकालभावीनि, दशाश्चर्याण्यमून्यहो ॥ ३१ ॥ आद्यानि पञ्चाश्चर्याणि तीर्थेऽन्त्यस्यापराणि तु । नेमिमल्लिशीतलश्रीसुविधिप्रथमार्हताम् ॥ ३२ ॥ नाभेयोऽष्टापदे वीरोऽपापायां पुरि निर्वृतः । वासुपूज्यश्च चम्पायां, नेमी रैवतकाचले ॥ ३३ ॥ अन्ये संमेतशिखरे, पर्यङ्कासनसंस्थिताः । श्रीनेमि - वीरवृषभाः कायोत्सर्गासनाः परे ॥ ३४ ॥ आद्यः षड्विरुपवासैर्द्वाभ्यां वीरः शिवं गतः । शेषा मासक्षपणेन, तपसा निर्वृतिं ययुः ॥ ३५ ॥ आद्यः सहस्रैर्दशभिः, षड्डिस्तैर्विमलो जिनः । अनन्तजित्सप्तभिस्तैः, श्रीशान्तिर्नवभिः शतैः ॥ ३६ ॥ सप्तमैकोनविंशौ च पञ्चभिः पञ्चभिः शतैः । सिद्धः पद्मप्रभः सार्द्ध, त्रिभिरष्टोत्तरैः शतैः ॥ ३७ ॥ नेमिः षट्त्रिंशदधिकैः साधूनां पञ्चभिः शतैः । षङ्गिः शतैर्वासुपूज्यो, धर्मः साष्टशतेन च | ॥ ३८ ॥ त्रयस्त्रिंशत्साधुयुक्तः, पार्श्वनाथः शिवं ययौ । एकाकी चरमः स्वामी, सहस्रेणान्विताः परे ॥ ३९ ॥ अष्टात्रिंशत्सहस्राणि पञ्चाशीतिसमन्विता । चतुःशती जिनैः सार्द्ध, निर्वृता सर्वसंख्यया ॥ ४० ॥ तृतीयषष्टनवमद्वादशा अपराह्न के । शेषाः श्रेयांसपर्यन्ताः, पूर्वाह्ने वृषभादयः ॥ ४१ ॥ धर्मारनमिवीराश्चापररात्रे शिवं गताः । शेषास्तु पूर्वरात्रेऽष्टौ सिद्धाः श्रीविमलादयः ॥ ४२ ॥ इन्द्रभूतिरग्निभूतिर्वायुभूतिरमी त्रयः । सहोदरास्तथा व्यक्तसुधर्माणो द्विजोत्तमौ ॥ ४३ ॥ षष्ठो मण्डित
For Private & Personal Use Only
Jain Education national
२०
२५
॥ ५२३ ॥
२८
jainelibrary.org