________________
काग्रामादुपर्जुवालिकातटम् । केवलं पाप धीरोऽन्ये, खखदीक्षावनेषु च ॥ १४ ॥ श्रीपार्श्वनेमिनाभेयमल्लीनाम[ष्टमस्पृशाम् । केवलं वासुपूज्यस्य, चतुर्थभक्तशालिनः ॥ १५ ॥ शेषाणां कृतषष्ठानामुत्पन्नं सन्नकल्मषम् । सर्वे-1 षामपि पूर्वाह्ने, पश्चिमाहेऽन्तिमप्रभोः ॥१६॥ आये समवसरणे, सर्वेषामर्हतामिह । उत्पन्नं तीर्थमन्त्यस्य, जिनेन्द्रस्य द्वितीयके ॥ १७॥ यावदुत्पद्यते तीर्थमग्रिमस्य जिनेशितुः । तावत्पूर्वस्य पूर्वस्य, भवेत्तीर्थमखण्डित ॥ १८ ॥ अस्यामवसर्पिण्यां तु-आद्यात्सुविधिपर्यन्तं, शान्तेश्चान्त्यजिनावधि । अष्टखष्टखन्तरेषु, तीर्थ- ५ मासीनिरन्तरम् ॥ १९॥ मध्ये सप्तखन्तरेषु, नवमात्षोडशावधि । यावत्कालमभूत्तीर्थविच्छेदः स निरू-11 प्यते ॥ २० ॥ पुष्पदन्तशीतलयोः, शीतलश्रेयसोरपि । एकैकः पल्यतुर्याशस्तीर्थमत्रुट्यदन्तरे ॥ २१ ॥ त्रयः पल्यचतुर्थांशाः, श्रेयांसवासुपूज्ययोः । वासुपूज्यविमलयोस्तुर्यः पल्योपमांशकः ॥ २२॥ त्रयः पल्यस्य । तुर्याशा, विमलानन्तयोरपि । एकः पल्यचतुर्थांशो, मध्ये चानन्तधर्मयोः ॥ २३ ॥ एकः पल्यस्य तुर्याशो,I धर्मशान्त्योः किलान्तरे । केचित्पल्योपमान्याहुः, पल्यतुर्याशकास्पदे ॥ २४ ॥ तथाहुः सप्ततिस्थानके-"इगइ- १० गतिगेगतिगइग इगं स इइगार पलिअचउभागे । वितऽन्ने इअ पलिए सुविहाइसु सत्ततित्थन्ते ॥ २५ ॥ दुष्षमारकपर्यन्तं, तीर्थ वीरजिनेशितुः। प्रवर्त्ततेऽव्यवच्छिन्नं, छिन्नजन्मजरामयम् ॥ २६ ॥ द्वाविंशतिसहस्रा-1 ब्दन्यूनैकपूर्वलक्षयुक्। तीर्थ वीरस्याब्धिकोटाकोटीनाभेयतीर्थतः ॥२७॥ कालमानमिदं चादिजिवतीर्थप्रवृत्तितः। श्रीवीरतीर्थपर्यन्तं, यावद् ज्ञेयं विचक्षणैः ॥ २८ ॥
Jain Educatio
n
al
For Private & Personel Use Only
Owainelibrary.org