SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ पुत्राख्यो, मौर्यपुत्रश्च सप्तमः । अकम्पितोऽचलभ्राता, मेतार्यश्च प्रभासकः ॥ ४४ ॥ अमी गणधरा एकादश || श्रीचरमप्रभोः । अथैषां परिवारादिवरूपं किश्चिदुच्यते ॥ ४५ ॥ वसुभूतिसुताः पृथ्वीकुक्षिजाः प्रथमे त्रयः। गोबरग्रामवास्तव्या, वेदवेदाङ्गपारगाः॥४६॥ कोल्लाकाख्यसन्निवेशवास्तव्यौ तुर्यपञ्चमी । वारुणीमातृकस्तत्र, तुरीयो धनमित्रभूः ॥४७॥ पञ्चमो भद्दिलाकुक्षिरत्नं धम्मिलनन्दनः । उपास्यमानौ द्वावेती, शिष्याणां पञ्चभिः शतैः॥४८॥ तथा मौर्यसन्निवेशवासिनौ षष्ठसप्तमौ । धनदेवसुतः षष्ठः, सप्तमो मौर्यनन्दनः ॥४९॥ विजया- ५ तनुजौ सार्द्धशतत्रयपरिच्छदौ । देशाचाराविरुद्धा, पृथपितृकता तयोः ॥५०॥ तत्र देशे कुले यस्मिन् , मृते भर्तरि योषिताम् । आचीर्णत्वादविरुद्धो, धवान्तरपरिग्रहः ॥५१॥ जयन्तीतनुजो देवनन्दनोऽकम्पिताहयः।। मिथिलापुरवास्तव्यः, शतत्रयपरिच्छदः ॥ १२॥ नवमो कोशलावासी, नन्दाभूर्वसुवमृकः । तुङ्गिकाख्यसन्निवेशवास्तव्यो दशमो गणी ॥५३॥ स दत्तपुत्रो वरुणदेवागर्भसमुद्भवः । एकादशो राजगृहवासी द्विजकुलध्वजः ॥ ५४॥ सोऽतिभद्राकुक्षिरनं, सर्वेऽपि नवमाद्यः । उपासिता व्यक्तभक्तिसक्तैः शिष्यशतैत्रिभिः । १० ॥५५॥ज्येष्ठा १ च कृत्तिका २ खातिः ३ श्रुति ४ रर्यमदैवतम् ५। मघा ६ ब्राहम्यु ७त्तराषाढा ८, मार्गा ९. श्चिन्यो १० च पुष्यभम् ॥५६॥ एकादशानां जन्माण्येतानि गणधारिणाम् । गृहस्थत्वादिपर्यायपरिमाणमथ हुवे ॥५७॥ गार्हस्थ्येऽब्दानि पंचाशत्, छाद्मस्थ्ये त्रिंशदेव च । सर्वज्ञत्वे द्वादशान्दा, नवतिश्चायुरादिमे ॥५८ ॥ अग्निभूतौ च षट्चत्वारिंशदू द्वादश षोडश । गार्हस्थ्यादिषु सर्वायुः, स्युश्चतुःसप्ततिः समाः॥ ५९॥ १४ Jain Educat i onal For Private Personel Use Only VIRw.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy