Book Title: Lokprakash Part_3
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दीरनेतुर्गणा नव ॥ ७५ ॥ एकवाचनिकः साधुसमुदायो भवेद्गणः । तेऽन्येषामहतां ज्ञेया, गणभृत्संख्यया समाः॥ ७६ ॥ समुच्चिता गणाधीशाः, सर्वेषामर्हतां समे । स्युर्द्विपञ्चाशदधिकाश्चतुर्दश शता इह ॥ ७७ ॥ श्रीवीरस्वामिनः साधुसहस्राणि चतुर्दश । षट्त्रिंशच्च सहस्राणि, संयतीनां महात्मनाम् ॥ ७८ ॥ इदं किल चतुरशीतिसहस्रादिकमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदि-2 तव्यं, इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिके आसीरन् इति नन्दीवृत्ती गच्छाचारवृत्तौ च । श्राद्धानां लक्षमेकोनषष्ट्या युक्तं सहस्रकैः। लक्षत्रयं श्राविकाणामष्टादशसहस्रयुक् ॥७९॥ सर्वज्ञानां शताः सप्त, पञ्च मानसवेदिनाम् । सहस्रमेकमवधिज्ञानिनां त्रिशतान्वितम् ॥८॥ शताः सप्त, सचतुर्दशपूर्विणाम् । त्रयः शता वादिवरमुनीनां च चतुःशती ॥ ८१॥ | सर्वेऽष्टाविंशतिर्लक्षाः, सर्वेषां साधवोऽर्हताम् । अष्टाचत्वारिंशता च, सहस्रैरधिकाः स्मृताः ॥ ८२॥ |संयतीनां चतुश्चत्वारिंशल्लक्षाः सहस्रकाः। षट्चत्वारिंशदेवाथ, षट्संयुक्ता चतुःशती ॥ ८३ ॥ लक्षाणि | पञ्चपञ्चाशत्, श्रावकाणां गुणौकसाम् । सहस्ररष्टचत्वारिंशतोपेतानि निश्चितम् ॥ ८४ ॥ एका कोटी पञ्च | लक्षाण्यष्टात्रिंशत्सहस्रकाः। सर्वाग्रं श्राविकाणां च, सर्वेषामर्हतामिह ॥ ८५ ॥ षट्सप्ततिसहस्राढ्यं, लक्षमेकं ३ | शताधिकम् । सर्वेषामर्हतामुक्तं, सर्वाग्रं सर्ववेदिनाम् ॥ ८६ ॥ लक्षमेकं तथा पञ्चचत्वारिंशत्सहस्रकाः। शताः पश्चैकनवतियुक्ता मानसवेदिनाम् ॥ ८७॥ लक्षमेकं त्रयत्रिंशत्सहस्राः सचतुःशताः । उक्ता जिनानां
१०
म.प्र. ८९
Jain Education
For Private Personal use only
delibrary.org

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350