Book Title: Lokprakash Part_3
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 307
________________ वद्भवस्थितिः। मार्गे ममापि धर्मोऽस्ति, मार्गे जैनेऽपि विद्यते ॥३६॥ उत्सूत्रवचसाऽनेन, मरीचिः समुपार्जयत्।। संसारमेकपाथोधिकोटाकोटिमितं तदा ॥ ३७॥ ततस्तुयें भवे ब्रह्मलोकखर्गेऽभवत्सुरः । कोल्लाकसन्निवेशेऽथ, विप्रोऽभूत्पश्चमे भवे ॥ ३८॥ ततश्च मृत्वा भूयांसं, कालं संसारमाटिटत् । भवास्ते च न गण्यन्ते, भवानां सप्तविंशतौ ॥३९॥ षष्ठे भवे च स्थूणायां, नगर्या ब्राह्मणोऽभवत् । सौधर्मकल्पे देवोऽभूद, भवे मृत्वा च सप्तमे ॥४०॥ भवेऽष्टमे ततश्चैत्यसन्निवेशेऽभवद् द्विजः। ईशानदेवलोकेऽथ, निर्जरो नवमे भवे ॥ ४१ ॥ मन्दराख्ये सन्निवेशे, ब्राह्मणो दशमे भवे । एकादशे भवे देवोऽभवत्स्वर्गे तृतीयके ॥ ४२ ॥ भवे च द्वादशे पुर्या, श्वेताम्न्यां ब्राह्मणोऽभवत् । त्रयोदशे च माहेन्द्रे, कल्पेऽभूत्रिदशो भवे ॥ ४३॥ ततः कियन्तं कालं च, भ्रान्तोऽसौ भवसागरे । चतुर्दशे ततो राजगृहेऽभूद्राह्मणो भवे ॥४४॥ भवे पञ्चदशे ब्रह्मलोकस्वर्गे सुरोऽभवत् । मरीच्यादिनुभवानां, षट्के सोऽभूत्रिदण्डिकः ॥४५॥ षोडशे च भवे विश्वभूत्याख्यो युवराजमूः। संभूतिमुनिपादान्ते, प्रपेदे संयम स च ॥४६॥ अन्यदा मासतपसः, पारणायां स जग्मिवान् । मुनिर्गोचरचर्यायां, तत्र धेनुहतोडपतत् ॥४७॥ दृष्टः पितृव्यपुत्रेण, हसितः कुपितो भृशम् । गां शृङ्गयोहीत्वा द्रार, नभस्यभ्रमयद्रुषा ॥४८॥ निदानं कृतवांश्चैवं, भूयासं तपसाऽमुना । भूयिष्टवीर्यो मृत्वा च, महाशुक्रेऽभवत्सुरः ॥ ४९ ॥ वासुदेवस्त्रिपृष्ठाख्योऽजायताष्टादशे भवे । बाल्येऽप्यदारयत्सिंह, यः स्थाना जीर्णवस्त्रवत् ॥५०॥ नरके सप्तमेऽथैकोनविंशतितमे भवे । सिंहोऽभूद्विंशतितमे, चतुर्थे नरके गतः ॥५१॥ निर्गत्य नरकातुर्यात्, स बभ्राम भवान् १४ Jain Education For Private & Personal Use Only Abbelibrary.org All

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350