Book Title: Lokprakash Part_3
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 305
________________ ५ मनःपर्यायवेदिनाम् । पञ्चाशदधिकाः सस, शताः प्रोक्ता मनीषिभिः ॥ ६॥ अवधिज्ञानभाजां च, चतुर्दश शताः प्रभोः । सच्चतुर्दशपूर्वाणामन्या त्रिशती मता ॥७॥ विकुर्वणासमर्थानां, शतान्येकादशाय च । सुरासुरैरजय्यानां, षट्शती वादिनामभूत् ॥ ८॥ शुभाभिधो गणी मुख्य, आर्यदिन्नो मतान्तरे । प्रवर्तिनी पुष्पचूला, भक्तभूप: प्रसेनजित् ॥९॥ बीजपूरोरगोपेतापसव्यकरयामलः। नकुलं च भुजङ्गं च, धद्वामकरदये ॥१०॥ श्यामवर्णः फणिफणाचक्रमण्डितमस्तकः । चतुर्भुजश्चतुर्वक्रो, गजास्यः कूर्मवाहनः ॥ ११ ॥ नाना श्रीवामनोः यक्षा, पाख्यिश्च मतान्तरे। श्रीपार्श्वनाथभक्तानां, सान्निध्यं कुरुते सदा ॥१२॥ त्रिभिर्विशेषकम् । आविभ्रती पद्मपाशावपसव्ये करद्वये । सव्ये करद्वये कन्नौ, दधती च फलाङ्कुशौ ॥ १३ ॥ चतुर्भुजा हेमवर्णा, कुर्कुटोरगवाहना । श्रीपार्श्व स्मरतां दत्ते, देवी पद्मावती श्रियम् ॥ १४ ॥ युग्मम् । इति श्रीपार्श्वः ॥ पश्चिमेषु विदेहेषु, नयसाराभिधोऽभवत् । ग्रामनाथः स काष्ठार्थ, वनेऽगात् वाम्यनुज्ञया ॥ १५ ॥ भोजनावसरे वाञ्छन्नतिथीनी समागमम् । सार्द्धभ्रष्टान् ददर्शन, क्षुधान्मिार्गविच्युतान् ॥ १६ ॥ ततस्तान परमप्रीत्या, प्रणम्य परिचर्य च । शुद्धाशनादिभिः पश्चात् , स्वयं मार्गमदर्शयत् ॥ १७॥ प्रापितस्तत्र सम्यक्त्वं, योग्योऽयमिति साधुभिः । ततो भवे द्वितीयेऽसौ, सौधर्मे त्रिदशोऽभवत् ॥१८॥ ततो मरीचिनामाऽभूत् , पुत्रो भरतचक्रिणः । स प्रववाज वैराग्यात्, समीपे वृषभप्रभोः॥१९॥ अधीतकादशाङ्गोऽपि, सोऽथ तापादिपीडया। १ यद्यपि न तस्य सम्यक्त्वं, न चेदृश्याकाङ्क्षा सूत्रोक्ता, तथापि भोजनकालेऽतिथीनां स्मरणं सद्गृहस्थलक्षणमित्युक्तं । 3020302aeeOOO900 १० १३ लो. प्र. ८ Jain Educati o nal For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350