Book Title: Lokprakash Part_3
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे ३२ सर्गे
॥ ५९८ ॥
Jain Education
चतुर्थस्यारकस्य च । सार्द्धाः शतास्त्रयोऽब्दानामवशिष्टतया स्थिताः ॥९४॥ त्रिंशदन्दानि कौमार्य, व्रते वर्षाणि सप्ततिः । दिनानि तत्र चतुरशीतिश्छाद्मस्थ्यमीरितम् ॥ ९५ ॥ सर्वायुः शतमन्दानां विशाला शिविका व्रते । धन्यः कोपकटग्रामे, पारणां प्रथमां ददौ ॥ ९६ ॥ पञ्चाग्नीन् साधयन् कष्टं, सासहिः कठतापसः । प्रभुणा दर्शिते सर्प, प्रज्वलत्काष्ठकोटरात् ॥ ९७ ॥ लज्जितस्तपसा तेन, मेघमाली सुरोऽभवत् । ववर्षातितरां रोषादुपद्रोतुं जिनेश्वरम् ॥ ९८ ॥ युग्मम् । धरणेन्द्रत्वमासाद्य, स सर्पो विचलासूनः । भक्त्याऽऽच्छाच फणैरेनमुपसर्ग न्यवर्त्तयत् ॥ ९९ ॥ ततस्त्रयोऽथवा सप्त, फणा एकादशापि च । भवन्ति पार्श्वनाथस्येत्युक्तं पूर्वमहर्षिभिः ॥ ९००॥ धातकी ज्ञानवृक्षः स्यात्, श्रीपार्श्वस्य जगत्प्रभोः । प्रभोरष्टौ गणभृतो, नामतः कीर्त्तयामि तान् ॥ १ ॥ शुभ १स्तथाऽऽर्यघोषश्च २, वसिष्ठो ३ ब्रह्मचार्यपि ४ । सोमश्च ५ श्रीधरचैव ६, वीरभद्रो ७ यशोऽभिधः ८ ॥ २ ॥ अयं श्रीकल्पसूत्रस्याभिप्रायः, आवश्यक सप्ततिशतस्थानका दिषु च दश गणभृत उक्ताः सन्ति, किंच - श्रीकल्पसूत्रपार्श्वचरित्रादौ श्रीपार्श्वस्य धातकी ज्ञानवृक्ष उक्तः, श्रीउत्तराध्यनवृहद्वृत्तौ तु अशोक उक्त इति ज्ञेयं । षोडशैव सहस्राणि साधूनां भावितात्मनाम् । अष्टात्रिंशत्सहस्राणि, साध्वीनां च शुभात्मनाम् ॥ ३ ॥ श्राद्धानां सचतुःषष्टिसहस्रं लक्षमीरितम् । अग्रेसरः श्रावकञ्च प्रभोः सूर्य इति स्मृतः ॥ ४ ॥ लक्षास्तिस्रस्तथै| कोनचत्वारिंशत्सहस्रकाः । श्राविकाणां तासु मुख्या सुनन्दा नामतः स्मृता ॥ ५ ॥ सर्वज्ञानां सहस्रं च, १ आवश्यकपणादौ समाहितमेतत् अल्पायुष्टादि हेतोः, स्थानाङ्गवृत्तावपि । २ अशोकस्योपरि ज्ञानवृक्षस्य भावादशोकोक्तिर्न विरोधावहा
For Private & Personal Use Only
tional
श्रीपार्श्वनाथः
२०
२५
॥ ५९८ ॥
२७
jainelibrary.org

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350