Book Title: Lokprakash Part_3
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
सदा २ | न गेहिविनयः कार्यों ३, मौनं ४ पाणौ च भोजनम् ५ ॥ ८९ ॥ अभिग्रहानिमान् पञ्चाभिगृह्य परमेश्वरः । आर्यानार्येषु देशेषु, विजहार क्षमानिधिः ॥ ९० ॥ एवं विजहुर्वृषभनेमिपार्श्वजिनेश्वराः । आर्यानार्येषु शेषास्तु, | सदाऽऽर्येष्वेव विंशतिः ॥ ९१ ॥ एकोनत्रिंशतं वर्षाण्यद्व्यर्द्धान्यन्तिमो जिनः । पक्षोनानि च सर्वज्ञपर्याय पर्युपूरयत् ॥ ९२ ॥ बभार व्रतपर्याय, द्विचत्वारिंशदब्दकम् । एवं द्विसप्ततिर्वर्षाण्यायुः सर्वमभूद्विभोः ॥ ९३ ॥ अयं कल्पसूत्राद्यभिप्रायः, समवायाङ्गे तु साधिकानि द्विचत्वारिंशद्वर्षाणि व्रतपर्यायः, साधिकानि द्विसप्तति-वर्षाणि सर्वायुरित्युक्तमिति ज्ञेयं ।
तपोवृषभतीर्थेऽभूत्कष्टं वार्षिकं तथा । षाण्मासिकं वीरतीर्थे, शेषेषु चाष्टमासिकम् ॥ ९४ ॥ प्रमादकालोऽहोरात्रप्रमितो वृषभेशितुः । अन्तर्मुहूर्त्त वीरस्य, शेषाणां स न विद्यते ॥ ९५ ॥ श्रीवीरनेतुर्भूयांसः, श्रीपार्श्वस्य च तेऽल्पकाः । द्वाविंशतेश्च शेषाणामुपसर्गा न जज्ञिरे ॥ ९६ ॥ शक्रन्यस्तं देवदृष्यं, स्कन्धे वृषभवीरयोः । संवत्सरं सातिरेकं शेषाणां सर्वदा स्थितम् ॥ ९७ ॥ अत्र श्रीजम्बूद्वीपप्रज्ञतिसूत्रे श्रीवृषभदेवस्य श्रीकल्पसूत्रे श्रीमहावीरस्य साधिकं वर्ष देवदृष्यस्थितिरुक्ता, श्रीसप्ततिशतस्थानकग्रन्थे च - "सको य लक्खमुलं सुरसं ठवइ सङ्घजिणखंधे । वीरस्स वरिसमहिअं सयावि सेसाण तस्स टिई ||१||" इत्युक्तमिति ज्ञेयं । चन्द्रप्रभाख्या शिविका, बहुलो भैक्ष्यमादिमम् । कोल्लाकसन्निवेशेऽदात्,
१ तुर्यांगे विवक्षितं सर्व, अन्यत्र तु अल्पस्याविवक्षेति
C
ational
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350