SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Jain Education सदा २ | न गेहिविनयः कार्यों ३, मौनं ४ पाणौ च भोजनम् ५ ॥ ८९ ॥ अभिग्रहानिमान् पञ्चाभिगृह्य परमेश्वरः । आर्यानार्येषु देशेषु, विजहार क्षमानिधिः ॥ ९० ॥ एवं विजहुर्वृषभनेमिपार्श्वजिनेश्वराः । आर्यानार्येषु शेषास्तु, | सदाऽऽर्येष्वेव विंशतिः ॥ ९१ ॥ एकोनत्रिंशतं वर्षाण्यद्व्यर्द्धान्यन्तिमो जिनः । पक्षोनानि च सर्वज्ञपर्याय पर्युपूरयत् ॥ ९२ ॥ बभार व्रतपर्याय, द्विचत्वारिंशदब्दकम् । एवं द्विसप्ततिर्वर्षाण्यायुः सर्वमभूद्विभोः ॥ ९३ ॥ अयं कल्पसूत्राद्यभिप्रायः, समवायाङ्गे तु साधिकानि द्विचत्वारिंशद्वर्षाणि व्रतपर्यायः, साधिकानि द्विसप्तति-वर्षाणि सर्वायुरित्युक्तमिति ज्ञेयं । तपोवृषभतीर्थेऽभूत्कष्टं वार्षिकं तथा । षाण्मासिकं वीरतीर्थे, शेषेषु चाष्टमासिकम् ॥ ९४ ॥ प्रमादकालोऽहोरात्रप्रमितो वृषभेशितुः । अन्तर्मुहूर्त्त वीरस्य, शेषाणां स न विद्यते ॥ ९५ ॥ श्रीवीरनेतुर्भूयांसः, श्रीपार्श्वस्य च तेऽल्पकाः । द्वाविंशतेश्च शेषाणामुपसर्गा न जज्ञिरे ॥ ९६ ॥ शक्रन्यस्तं देवदृष्यं, स्कन्धे वृषभवीरयोः । संवत्सरं सातिरेकं शेषाणां सर्वदा स्थितम् ॥ ९७ ॥ अत्र श्रीजम्बूद्वीपप्रज्ञतिसूत्रे श्रीवृषभदेवस्य श्रीकल्पसूत्रे श्रीमहावीरस्य साधिकं वर्ष देवदृष्यस्थितिरुक्ता, श्रीसप्ततिशतस्थानकग्रन्थे च - "सको य लक्खमुलं सुरसं ठवइ सङ्घजिणखंधे । वीरस्स वरिसमहिअं सयावि सेसाण तस्स टिई ||१||" इत्युक्तमिति ज्ञेयं । चन्द्रप्रभाख्या शिविका, बहुलो भैक्ष्यमादिमम् । कोल्लाकसन्निवेशेऽदात्, १ तुर्यांगे विवक्षितं सर्व, अन्यत्र तु अल्पस्याविवक्षेति C ational For Private & Personal Use Only jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy