________________
लोकप्रकाशे ३२ सर्गे
॥ ५९८ ॥
Jain Education
चतुर्थस्यारकस्य च । सार्द्धाः शतास्त्रयोऽब्दानामवशिष्टतया स्थिताः ॥९४॥ त्रिंशदन्दानि कौमार्य, व्रते वर्षाणि सप्ततिः । दिनानि तत्र चतुरशीतिश्छाद्मस्थ्यमीरितम् ॥ ९५ ॥ सर्वायुः शतमन्दानां विशाला शिविका व्रते । धन्यः कोपकटग्रामे, पारणां प्रथमां ददौ ॥ ९६ ॥ पञ्चाग्नीन् साधयन् कष्टं, सासहिः कठतापसः । प्रभुणा दर्शिते सर्प, प्रज्वलत्काष्ठकोटरात् ॥ ९७ ॥ लज्जितस्तपसा तेन, मेघमाली सुरोऽभवत् । ववर्षातितरां रोषादुपद्रोतुं जिनेश्वरम् ॥ ९८ ॥ युग्मम् । धरणेन्द्रत्वमासाद्य, स सर्पो विचलासूनः । भक्त्याऽऽच्छाच फणैरेनमुपसर्ग न्यवर्त्तयत् ॥ ९९ ॥ ततस्त्रयोऽथवा सप्त, फणा एकादशापि च । भवन्ति पार्श्वनाथस्येत्युक्तं पूर्वमहर्षिभिः ॥ ९००॥ धातकी ज्ञानवृक्षः स्यात्, श्रीपार्श्वस्य जगत्प्रभोः । प्रभोरष्टौ गणभृतो, नामतः कीर्त्तयामि तान् ॥ १ ॥ शुभ १स्तथाऽऽर्यघोषश्च २, वसिष्ठो ३ ब्रह्मचार्यपि ४ । सोमश्च ५ श्रीधरचैव ६, वीरभद्रो ७ यशोऽभिधः ८ ॥ २ ॥ अयं श्रीकल्पसूत्रस्याभिप्रायः, आवश्यक सप्ततिशतस्थानका दिषु च दश गणभृत उक्ताः सन्ति, किंच - श्रीकल्पसूत्रपार्श्वचरित्रादौ श्रीपार्श्वस्य धातकी ज्ञानवृक्ष उक्तः, श्रीउत्तराध्यनवृहद्वृत्तौ तु अशोक उक्त इति ज्ञेयं । षोडशैव सहस्राणि साधूनां भावितात्मनाम् । अष्टात्रिंशत्सहस्राणि, साध्वीनां च शुभात्मनाम् ॥ ३ ॥ श्राद्धानां सचतुःषष्टिसहस्रं लक्षमीरितम् । अग्रेसरः श्रावकञ्च प्रभोः सूर्य इति स्मृतः ॥ ४ ॥ लक्षास्तिस्रस्तथै| कोनचत्वारिंशत्सहस्रकाः । श्राविकाणां तासु मुख्या सुनन्दा नामतः स्मृता ॥ ५ ॥ सर्वज्ञानां सहस्रं च, १ आवश्यकपणादौ समाहितमेतत् अल्पायुष्टादि हेतोः, स्थानाङ्गवृत्तावपि । २ अशोकस्योपरि ज्ञानवृक्षस्य भावादशोकोक्तिर्न विरोधावहा
For Private & Personal Use Only
tional
श्रीपार्श्वनाथः
२०
२५
॥ ५९८ ॥
२७
jainelibrary.org