________________
वद्भवस्थितिः। मार्गे ममापि धर्मोऽस्ति, मार्गे जैनेऽपि विद्यते ॥३६॥ उत्सूत्रवचसाऽनेन, मरीचिः समुपार्जयत्।। संसारमेकपाथोधिकोटाकोटिमितं तदा ॥ ३७॥ ततस्तुयें भवे ब्रह्मलोकखर्गेऽभवत्सुरः । कोल्लाकसन्निवेशेऽथ, विप्रोऽभूत्पश्चमे भवे ॥ ३८॥ ततश्च मृत्वा भूयांसं, कालं संसारमाटिटत् । भवास्ते च न गण्यन्ते, भवानां सप्तविंशतौ ॥३९॥ षष्ठे भवे च स्थूणायां, नगर्या ब्राह्मणोऽभवत् । सौधर्मकल्पे देवोऽभूद, भवे मृत्वा च सप्तमे ॥४०॥ भवेऽष्टमे ततश्चैत्यसन्निवेशेऽभवद् द्विजः। ईशानदेवलोकेऽथ, निर्जरो नवमे भवे ॥ ४१ ॥ मन्दराख्ये सन्निवेशे, ब्राह्मणो दशमे भवे । एकादशे भवे देवोऽभवत्स्वर्गे तृतीयके ॥ ४२ ॥ भवे च द्वादशे पुर्या, श्वेताम्न्यां ब्राह्मणोऽभवत् । त्रयोदशे च माहेन्द्रे, कल्पेऽभूत्रिदशो भवे ॥ ४३॥ ततः कियन्तं कालं च, भ्रान्तोऽसौ भवसागरे । चतुर्दशे ततो राजगृहेऽभूद्राह्मणो भवे ॥४४॥ भवे पञ्चदशे ब्रह्मलोकस्वर्गे सुरोऽभवत् । मरीच्यादिनुभवानां, षट्के सोऽभूत्रिदण्डिकः ॥४५॥ षोडशे च भवे विश्वभूत्याख्यो युवराजमूः। संभूतिमुनिपादान्ते, प्रपेदे संयम स च ॥४६॥ अन्यदा मासतपसः, पारणायां स जग्मिवान् । मुनिर्गोचरचर्यायां, तत्र धेनुहतोडपतत् ॥४७॥ दृष्टः पितृव्यपुत्रेण, हसितः कुपितो भृशम् । गां शृङ्गयोहीत्वा द्रार, नभस्यभ्रमयद्रुषा ॥४८॥ निदानं कृतवांश्चैवं, भूयासं तपसाऽमुना । भूयिष्टवीर्यो मृत्वा च, महाशुक्रेऽभवत्सुरः ॥ ४९ ॥ वासुदेवस्त्रिपृष्ठाख्योऽजायताष्टादशे भवे । बाल्येऽप्यदारयत्सिंह, यः स्थाना जीर्णवस्त्रवत् ॥५०॥ नरके सप्तमेऽथैकोनविंशतितमे भवे । सिंहोऽभूद्विंशतितमे, चतुर्थे नरके गतः ॥५१॥ निर्गत्य नरकातुर्यात्, स बभ्राम भवान्
१४
Jain Education
For Private & Personal Use Only
Abbelibrary.org All