SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ छठे पोहिल्लभवग्गहणे' इति सूत्रे श्रीवीरस्य देवानन्दागर्भस्थितिस्त्रिशलाकुक्ष्यागतिश्चेति भवद्वयं विवक्षितम-11 ISस्तीति ज्ञेयं । आषाढे धवला षष्ठी, चैत्रे शुक्ला त्रयोदशी। मार्गस्य दशमी कृष्णा, वैशाखे दशमी सिता ॥६५॥] कार्तिकस्यामावसीति, कल्याणकदिनाः प्रभोः। अभूगर्भापहारे तु, त्रयोदश्याश्विने सितिः ॥ ६६ ॥ फाल्गुन्य उत्तरा धिष्ण्यं, कल्याणकचतुष्टये । तथा गर्भापहारेऽपि, निर्वाणे खातिरिष्यते ॥ ६७॥ योमहिलयोर्गर्भ, स्थितिः संकलिता विभोः। नव मासाः सातिरेकाः, सप्तभिः किल वासरैः॥ ६८॥ श्रीपार्श्वनाथनिर्वाणाद|भृजन्मान्तिमार्हतः। साधिकेनाष्टसप्तप्त्या, शतेन शरदामिह ॥६९॥ श्रीवीरगर्भकाले च, वर्षाणां पञ्चसप्ततिः। तुर्यारकेऽवशिष्टाऽसीत्, सार्द्धमासाष्टकाधिका ॥७०॥ राशिरासीद्विभोः कन्या, लाञ्छनं च मृगाधिपः । देहो-11 च्छ्रयः सप्त हस्ताः, प्रशस्ताङ्गद्युतिश्रियः॥७१ ॥ गुणागतानि नामानि, त्रीण्यभूवन् जगद्विभोः। वर्द्धमानः श्रमणश्च, महावीर इति स्फुटम् ॥७२॥ अवतीर्णे प्रभौ ग्रामराष्ट्रादि यदवर्द्धत । ततः पितृभ्यां विहितमादिमं नाम सार्थकम् ॥ ७३ ॥ तपस्यति श्राम्यतीति, नाम श्रमण इत्यभूत् । तृतीयं नाम शक्रेण, विहितं तनिशम्यताम् ॥ ७४ ॥ प्रशशंसान्यदा शक्रः, खामिधैर्य स्वपर्षदि । अश्रद्दधानस्तत्कश्चिद्देवो भूलोकमीयिवान् ॥ ७॥ क्रीडति खामिनि क्रूरसर्परूपमदीदृशत् । निक्षिसे खामिना दूरं, तस्मिन्निीकचेतसा ॥७६॥ कुमाररूपमाधाय, चिक्रीड प्रभुणा सह । छलेन स्कन्दमारोप्य, प्रभुं स ववृधे भृशम् ॥ ७७॥ युग्मम् । तथाप्यभीतो भगवान् , शनैर्मुष्ट्या जघान तम्। ततः शक्रो व्यधातुष्टो,महावीराभिधं विभुम् ॥७८॥ तथोक्तं-"बालत्तणेवि सूरो, पयइए N Jan Educatio For Private & Personal Use Only ainelibrary.org INFO
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy