Book Title: Lokprakash Part_3
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 295
________________ देवी श्रीधारणी नीलवर्णा पद्मवरास ना।चतुर्भुजा क्षिणोत्यारमरखाम्यहिसेविनाम्॥५९॥ युग्मम्। इति श्रीअरः॥ विजये सलिलावत्यां, जम्बूद्वीपस्य मण्डने । प्रत्यग्विदेहे पूर्वीतशोका तत्राभवन्नृपः॥६०॥ नाम्ना वैश्रमणः पञ्चमित्रयुक्तः स संयमम् । वरधर्मर्षितः प्राप्य, मनस्येवमचिन्तयत् ॥ ६१॥ प्रव्रज्याऽवसरे लेहातिरेकादनुयायिभिः । तुल्यं कार्य तपोऽस्माभिरिति संधाविधायिभिः॥ ६२॥ मित्रैरमीभिः सदृशं, करिष्यामि तपो यदि । तुल्य एव भविष्यामि, तदाऽमीभिर्भवान्तरे॥३॥ युग्मं । ततः केनाप्युपायेन, करोम्येभ्यस्तपोऽधिकम् । ज्येष्ठो येन भवाम्यत्रामुत्राप्येभ्यस्तपोबलात् ॥ ६४ ॥ ततो वृथा व्यथाशंसी, मायया वर्धयंस्तपः । मुधा S यबन्ध स्त्रीवेदं, धिग्मायां खोपघातिनीम् ॥६५॥ अर्जितात्पदःस्थाविशत्याऽऽराधितैस्ततः। मित्रैस्सह जयन्तेऽभूत्, परमस्थितिकः सुरः॥६६॥ मिथिलायां विदेहेषु, ततः कुम्भमहीपतेः। कुक्षौ राश्या:प्रभावत्याः, पुत्रीत्वेनोदपद्यत ॥ ३७॥ जेत्री मोहादिमल्लानां, ततो मल्लिरिति श्रुता । मातुर्वा माल्यशय्यायां, दोहदात्तादृशाहृया ॥ ६८॥ चतुर्थी फाल्गुने शुक्ला, मार्गे चैकादशी सिता। मार्ग एकादशी शुभ्रा, मार्गे चैकादशी सिता ॥ ६९॥ फाल्गुने द्वादशी शुभ्रा, कल्याणकदिना अमी। चतुर्वेष्वश्विनी धिष्ण्यं, भरणी पञ्चमे पुनः॥७॥ प्रभोर्गर्भस्थितिर्मासा, नव सप्तदिनाधिकाः । राशिम॑षो भगवत्याः, कुम्भो लक्ष्म प्रकीर्तितम् ॥ ७१ ॥ पञ्च पञ्चाशता वर्षसहस्रैरूनके गते । सहस्र वर्षकोटीनां, निर्वाणात् श्रीअरप्रभोः ॥७२॥ जन्म मल्लिजिनस्याभूच्छेषं IS तुर्यारके तदा । जिनायुः शरदां लक्षाः (६५), सहस्राश्च (४) पुरोदिताः ॥७३॥ शरच्छतं कुमारत्वे, व्रते । १४ Ndainelibrary.org For Private & Personal Use Only VIEtional

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350