Book Title: Lokprakash Part_3
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 285
________________ Jain Education नृप ऐरावतक्षेत्रे, धातकीखण्डवर्तिनि । रिष्ठपुर्यामभूत् पद्मरथश्चित्ररथान्मुनेः ||१३|| संप्राप्य संयमं विंशत्यध्यायुः प्राणतेऽभवत् । सुरः स पुर्ययोध्यायां, देशे कोशलनामनि ॥ १४ ॥ सिंहसेनस्य नृपतेः, सुयशाकुक्षिसंभवः । तनयोऽनन्तजिन्नान्ना, जिनेन्द्रोऽभूच्चतुर्दशः ॥ १५ ॥ त्रिभिर्विशेषकम् । श्रावणे सप्तमी कृष्णा, वैशाखस्य त्रयोदशी । भूतेष्टा चासिते पक्षे, वैशाखस्य चतुर्दशी ॥ १६ ॥ चैत्रस्य पञ्चमी शुभ्रा, कल्याणकदिनाः प्रभोः । पश्चखप्येषु नक्षत्रं, रेवती परिकीर्त्तितम् ||१७|| नव गर्भस्थितिर्मासाः प्रभोः षदिवसाधिकाः । अङ्कः श्येनो मीनराशिर्धनुः पञ्चाशदुच्छ्रयः ॥ १८ ॥ ज्ञानादीनामनन्तत्वादनन्त इति कीर्त्त्यते । अनन्तमणिदान्नां वा, मात्रा खमे निरीक्षणात् ॥ १९ ॥ विमलखामिनिर्वाणान्नवभिः सागरोपमैः । त्रिंशल्लक्षशरयूनैरनन्तोजायत प्रभुः ॥ २० ॥ शिष्यन्ते स्म तदा तुर्यारके सप्त पयोधयः । लक्षैः सहस्रैर्वर्षाणां पूर्वोक्तैरधिकाः किल ॥ २१ ॥ सप्त सार्द्धा वर्ष लक्षाः, कुमारत्वेऽवसद्विभुः । भूपालत्वं पञ्चदश, वर्षलक्षाण्यपालयत् ||२२|| सार्धानि सप्त वर्षाणां लक्षाणि व्रतमादधौ । लक्षाणि त्रिंशदन्दानां सर्वमायुरभूत्प्रभोः ॥ २३ ॥ व्रते सागरदत्ताख्या, शिविका विजयाभिधः । वर्द्धमानग्रामवासी, प्रभोः प्रथमदायकः ॥ २४ ॥ मासत्रयं च च्छाद्मस्थ्येऽश्वत्थश्च ज्ञानभूरुहः । प्रभोर्गणभृतः श्रेष्ठाः, पञ्चाशत्परिकीर्त्तिताः ॥ २५ ॥ इत्यावश्यकाभिप्रायः, समवायाङ्गे तु चतुपश्चाशद्गुणधरा उक्ता इति ज्ञेयं । षट्षष्टिश्च सहस्राणि साधूनां सत्त्वशालिनाम् । द्वाषष्टिः संयतीनां च सहस्राण्यभवन् विभोः ॥ २६ ॥ लक्षद्वयं च श्राद्धानां षट्सहस्राधिकं प्रभोः । श्राविकाणां चतुर्लक्षी, सहस्राश्च tional For Private & Personal Use Only १४ jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350