SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Jain Education नृप ऐरावतक्षेत्रे, धातकीखण्डवर्तिनि । रिष्ठपुर्यामभूत् पद्मरथश्चित्ररथान्मुनेः ||१३|| संप्राप्य संयमं विंशत्यध्यायुः प्राणतेऽभवत् । सुरः स पुर्ययोध्यायां, देशे कोशलनामनि ॥ १४ ॥ सिंहसेनस्य नृपतेः, सुयशाकुक्षिसंभवः । तनयोऽनन्तजिन्नान्ना, जिनेन्द्रोऽभूच्चतुर्दशः ॥ १५ ॥ त्रिभिर्विशेषकम् । श्रावणे सप्तमी कृष्णा, वैशाखस्य त्रयोदशी । भूतेष्टा चासिते पक्षे, वैशाखस्य चतुर्दशी ॥ १६ ॥ चैत्रस्य पञ्चमी शुभ्रा, कल्याणकदिनाः प्रभोः । पश्चखप्येषु नक्षत्रं, रेवती परिकीर्त्तितम् ||१७|| नव गर्भस्थितिर्मासाः प्रभोः षदिवसाधिकाः । अङ्कः श्येनो मीनराशिर्धनुः पञ्चाशदुच्छ्रयः ॥ १८ ॥ ज्ञानादीनामनन्तत्वादनन्त इति कीर्त्त्यते । अनन्तमणिदान्नां वा, मात्रा खमे निरीक्षणात् ॥ १९ ॥ विमलखामिनिर्वाणान्नवभिः सागरोपमैः । त्रिंशल्लक्षशरयूनैरनन्तोजायत प्रभुः ॥ २० ॥ शिष्यन्ते स्म तदा तुर्यारके सप्त पयोधयः । लक्षैः सहस्रैर्वर्षाणां पूर्वोक्तैरधिकाः किल ॥ २१ ॥ सप्त सार्द्धा वर्ष लक्षाः, कुमारत्वेऽवसद्विभुः । भूपालत्वं पञ्चदश, वर्षलक्षाण्यपालयत् ||२२|| सार्धानि सप्त वर्षाणां लक्षाणि व्रतमादधौ । लक्षाणि त्रिंशदन्दानां सर्वमायुरभूत्प्रभोः ॥ २३ ॥ व्रते सागरदत्ताख्या, शिविका विजयाभिधः । वर्द्धमानग्रामवासी, प्रभोः प्रथमदायकः ॥ २४ ॥ मासत्रयं च च्छाद्मस्थ्येऽश्वत्थश्च ज्ञानभूरुहः । प्रभोर्गणभृतः श्रेष्ठाः, पञ्चाशत्परिकीर्त्तिताः ॥ २५ ॥ इत्यावश्यकाभिप्रायः, समवायाङ्गे तु चतुपश्चाशद्गुणधरा उक्ता इति ज्ञेयं । षट्षष्टिश्च सहस्राणि साधूनां सत्त्वशालिनाम् । द्वाषष्टिः संयतीनां च सहस्राण्यभवन् विभोः ॥ २६ ॥ लक्षद्वयं च श्राद्धानां षट्सहस्राधिकं प्रभोः । श्राविकाणां चतुर्लक्षी, सहस्राश्च tional For Private & Personal Use Only १४ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy