SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे छानस्थ्य, शिविका च व्रतक्षणे । देवदिन्ना जयो धान्यकटे प्रथमदायकः ॥ ६०० ॥ जम्बूतरुतले खामी, पञ्च-15 ३२ सर्गे मज्ञानमाप सः । निर्दिष्टाः सप्तपञ्चाशद्विभोगणधरोत्तमाः॥१॥ अयमावश्यकाभिप्रायः, समवायाने तु नन्तौ षट्पञ्चाशद्गणधरा उक्ता इति ज्ञेयं । अष्टषष्टिः सहस्राणि, साधूनां शीलशालिनाम् । लक्षमेकं च साध्वीनां, ॥५०८॥ शतैः साधिकमष्टभिः॥२॥ लक्षद्वयं च श्राद्धानां, सहस्रैरष्टभिर्युतम् । चतुर्लक्षी श्राविकाणां, सहस्रा जिनसंमिताः॥३॥ शतानि पञ्चपञ्चाशत्, केवलज्ञानशालिनाम् । मनःपर्यायचिदाजां, तावन्त्येव शतानि च ॥४॥ अष्टचत्वारिंशदेव, शतान्यवधिशालिनाम् । एकादश शतान्यस्य, सच्चतुर्दशपूर्विणाम् ॥५॥ लसद्वै. क्रियलब्धीनां, सहस्राणि नवाभवन् । वादिनां च सहस्राणि, त्रीणि षट् च शताः किल ॥६॥ मन्दरो मुख्यगणभूद्वराख्या च प्रवर्तिनी । खयम्भूर्वासुदेवश्चाभवद्भक्तो नृपः प्रभोः॥७॥ यक्षश्च षण्मुखः श्वेतव र्णाङ्गः शिखिवाहनः। स द्वादशभुजस्तीर्थाधिष्ठाता विमलप्रभोः॥८॥ फलं चक्रं च बाणंच, खडं पाशाक्षसूत्रके । स भुजेष्वपसव्येषु, षट्सु धत्ते महाबलः॥९॥ नकुलं चक्रमिष्वासं, फलक चाङ्कुशाभये । भुजेषु षट्सु वामेषु, धत्ते मत्तेभविक्रमः॥१०॥ त्रिभिर्विशेषकम् । देव्यभूद्विजयाभिख्या, विदिता च मतान्तरे। वर्णतो हरितालाभा, पद्मासीना चतुर्भुजा ॥११॥ तनोति शं बाणपाशयुग्दक्षिणकरद्वया । धार्मिकाणां धनुर्ना- 1॥५०८॥ गशालिवामकरद्वया ॥१२॥ युग्मम् । इति श्रीविमलः॥ १ तीर्थकरवत् गणभृतामायुषो नियमाभावात् अल्पायुष्टादिकारणान्नैको विवक्षितः स्यात् । २७ Jain Educatio n al For Private & Personal Use Only Y inelibrary.org O
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy