SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ | जिनसेविसमीहितम् ॥ ८५ ॥ युग्मम् । प्रवराख्या प्रभोदेवी, चंडाख्या च मतान्तरे । चतुर्भुजा श्यामवर्णा, सत्तुरङ्गमवाहना ॥ ८६ ॥ दधाति वरदं शक्ति, भुजयोरपसव्ययोः । दधाति सव्ययोः पुष्पं, गदां चैषा महाशया ॥ ८७॥ युग्मम् । इति श्रीवासुपूज्यः॥ | धातकीखण्डभरते, महापुर्या नृपोऽभवत् । पद्मसेनाह्वयः सर्वगुप्तर्षेः सोऽग्रहीद्वतम् ॥ ८८ ॥ ततः सुरः। सहस्रारेऽष्टादशार्णवजीवितः । भूत्वा पाञ्चालदेशेऽभूत्, पुरे काम्पील्यनामनि ॥ ८९॥ श्यामाराज्ञीकुक्षिरत्नं, कृतवर्ममहीपतेः। पुत्रः पवित्रचारित्रविमलो विमलाह्वयः ॥ ९० ॥ वैशाखे द्वादशी शुक्ला, माघे शुक्ला तृती-11 ६/यिका । माघे चतुर्थी शुक्ला च, पौषे षष्ठी तथोज्वला ॥९१ ॥ आषाढे सप्तमी कृष्णा, कल्याणकदिनाः प्रभोः । आहिर्बुध्नं चतुर्षु स्याद्धिष्ण्यं पौष्णं च पश्चमे ॥ ९२॥ मासा अष्टौ दिनान्येकविंशतिर्गरभस्थितिः। राशिर्मीनायो लक्ष्म, शूकरः कीर्त्तितः प्रभोः ॥९३ ॥ गर्भस्थेऽस्मिन्मातुरास्तां, मत्यङ्गे विमले इति । अन्तबहिश्च विमलतया वा विश्ववर्यया ॥९४॥ विमलो नामधेयेनादेयनामा स कीर्तितःषष्टिचापोन्नतः षष्टिलक्षादायुर्जगद्विभुः ॥ ९५ ॥ युग्मम् ॥ श्रीवासुपूज्यनिर्वाणात्रिंशता सागरोपमैः । षष्टिलक्षशरन्यूनर्जन्माभूद्वि-15 | मलप्रभोः ॥ ९६ ॥ तुर्यारकेऽब्धयः शेषाः, षोडश प्रभुजन्मनि । पूर्वोदितैर्वर्षलक्षस्तत्सहस्रैश्च साधिकाः ॥१७॥ तुर्यारकस्य शेषो यो, जिनजन्मनि वक्ष्यते । इतः प्रभृति स खखायुषाऽभ्यधिक ऊह्यताम् ॥ ९८ ॥ लक्षाः । पञ्चदशाब्दानां, कुमारत्वेऽवसद्विभुः। लक्षाणि त्रिंशतं राज्ये, लक्षाः पञ्चदश व्रते ॥ ९९ ॥ तत्र द्विमासी|| Jain Education ese a For Private Personel Use Only l Mainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy