SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ३२ सर्गे ॥५०२॥ वाहनः ॥ १८ ॥ दधानो वरदं शक्तिमपसव्यकरद्वये । गदां च नागपाशं च, वामहस्तद्वये दधत् ॥ १९ ॥ युग्मम् । देवी भवेन्महाकाली, स्वर्णवर्णाम्बुजासना । चतुर्भुजा सवरदपाशयाम्यकरद्वया ॥ २० ॥ मातुलिङ्गाङ्कुशोपेतवामहस्तद्वयाऽनिशम् । सुमतिप्रभुभक्तानां पूरयन्ती मनोरथान् ॥ २१ ॥ युग्मम् । इति श्रीसुमतिः ॥ प्रागभूद्धातकीखण्डे, विजये वत्सनामनि । सुसीमायां महापुर्या, नृपो नाम्नाऽपराजितः ॥ २२ ॥ सोऽभूत्प्रपद्य चारित्रं, सुगुरोः पिहिताश्रवात् । एकत्रिंशत्सागरायुर्देवो ग्रैवेयकेऽन्तिमे ॥ २३॥ वत्सदेशे सुकोशायां, नगर्यां धरभूपतेः । अभूत्सुतः सुसीमायां राज्ञ्यां पद्मप्रभस्ततः ॥ २४ ॥ माघस्य षष्ठी कृष्णाऽथ, द्वादशी च त्रयोदशी । कार्त्तिकस्यासिता चैत्रपौर्णमासी ततः पुनः ॥ २५ ॥ कृष्णा मार्गैकादशी च, कल्याणकदिनाः क्रमात् । विष्ण्यं च पञ्चखप्येषु, चित्रासंज्ञकमीरितम् || २६ || षड्वासराधिका मासा, नव गर्भस्थितिः प्रभोः । कन्याराशिश्च विज्ञेयो, लाञ्छनं च सरोरुहम् ॥ २७ ॥ त्रिंशत्पूर्वलक्षहीनैर्नवत्याऽभूत्सहस्रकैः । पद्म| प्रभोऽधिकोटीना महत्सुमतिनिर्वृतेः ॥ २८ ॥ सहस्रा अब्धिकोटीनां, दश तुर्यारकस्य च । प्रभुजन्मन्यशिव्यन्त, सत्रिंशत्पूर्वलक्षकाः ॥ २९ ॥ पद्मवन्निर्मलो यस्मान्मातुर्गर्भस्थिते प्रभौ । पद्मप्रभाङ्कशय्यायां दोहदात्तादृशाह्वयः ॥ ३० ॥ धनुः शतद्वयं सार्द्धं, खामिनो वपुरुच्छ्रयः । सार्द्धानि पूर्वलक्षाणि, सप्त ज्ञेया कुमा रता ॥ ३१ ॥ राज्यैश्वर्यं पूर्वलक्षाण्यद्ध्यर्द्धान्येकविंशतिम् । सातिरेकाणि पूर्वाङ्गैः पूर्णैः षोडशभिर्दधौ ॥ ३२ ॥ पूर्वलक्षं च पूर्वाद्वैरूनं पोडशभिर्व्रतम् । त्रिंशत्पूर्वलक्षजीबी, मासांश्च षडकेबली ॥ ३३ ॥ शिविका निर्वृति Jain Education nonal For Private & Personal Use Only सुम तिपद्म प्रभौ २५ ॥ ५०२ ॥ २८ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy