________________
नरेन्द्रसचिवादिषु । अवादीन्मङ्गला राज्ञी, तदा चोत्पन्नया धिया ॥ ३ ॥ गृहसर्वखवत्पुत्रोऽप्येष द्वेधा विभज्यताम् । अनुमेने विमाता तन्माता प्रोचे च साश्रुदृक् ॥ ४॥ अस्या एवास्तु पुत्रोऽयं, गृहद्रव्यादिभिः सह ।। अस्मिंश्चिरायुषि प्राप्त, सर्वमप्यखिलं मया॥५॥ युग्मम् । अदापयत्ततस्तस्यै, सुतं निश्चित्य मङ्गला। गर्भस्थस्य प्रभो| रेवमनुभावादभून्मतिः॥६॥ स्वयं च शोभनमतिस्तस्मात्सुमतिसंज्ञकः । कौमारं बिभरामास, पूर्वलक्षाण्यसौ
दश ॥७॥ एकोनत्रिंशतं स्वामी, पूर्वलक्षाण्यपालयत् । सातिरेकाणि पूर्वाङ्ग, राज्यं द्वादशभिर्भुवि ॥ ८॥ ४ व्रतं द्वादशपूर्वाङ्गन्यूनं च पूर्वलक्षकम् । चत्वारिंशत्पूर्वलक्षाण्यायुश्छाम्येऽष्टविंशतिः ॥९॥ ज्ञानद्रुमः । प्रियङ्गुः स्याद्रतार्थमभयङ्करा । शिविका पारणं चाद्यं, पद्मोऽदाद्विजये पुरे ॥१०॥ प्रभोः शतं गणभृतां, सर्विशतिसहस्रकम् । लक्षत्रयं स्युर्मुनयो, गुणमाणिक्यभूभृतः ॥ ११ ॥ पञ्च लक्षाः संयतीनां, सहस्रस्त्रिंशताऽधिकाः। लक्षद्वयं श्रावकाणां, सैकाशीतिसहस्रकम् ॥ १२॥ पञ्च लक्षा: श्राविकाणां, सषोडशसहस्रकाः। त्रयोदश सहस्राणि, प्रभोः केवलशालिनाम् ॥ १३ ॥ शतैश्चतुर्भिरद्ध्यर्द्वः, सहस्रा दश साधिकाः। मनोविदां सहस्राश्चैकादशावधिवेदिनाम् ॥१४॥ शताश्चतुर्विशतिश्च, स्युश्चतुर्दशपूर्विणाम् । अष्टादश वैक्रियाख्यसहस्राः सचतुःशताः॥१५॥ साद्वैः षडिः शतैयुक्ताः, सहस्रा दश वादिनाम् । चमरो गणभृन्मुख्या, काश्यपी च प्रवर्तिनी ॥ १६॥ मतान्तरे च निर्दिष्टाः, सहस्रा दश वादिनाम् । शतैश्चतुर्भिरद्ध्यर्द्धरधिकाः श्रुतकोविदः ॥ १७ ॥ सत्यवीर्यो नृपो भक्तो, यक्षः स्यात्तुम्बरुः स च । चतुर्भुजः श्वेतवर्णः, श्रीमान् गरुड-
१४
M
and
ininelibrary.org
AMEtional
For Private Personal Use Only