________________
S
करा, प्रथमां पारणां ददौ । ब्रह्मस्थले सोमदेवश्छनौघो ज्ञानपादपः ॥ ३४ ॥ सप्तोत्तरं गणभृतां, शतं संयमिनां प्रभोः । तिस्रो लक्षाः सहस्राश्च, त्रिंशद्विमलचेतसाम् ॥ ३५ ॥ लक्षाश्चतस्रः साध्वीनां, सहस्राणि च विंशतिः। षट्सप्ततिः सहस्राणि, द्वे लक्षे श्रावकोत्तमाः॥३६॥ लक्षाः पञ्च सहस्राश्च, पञ्च स्युः श्राविकाः प्रभोः। सहस्रा द्वादशाभूवन् , केवलज्ञानशालिनाम् ॥ ३७॥ सहस्राणि दश प्राहुस्तथा त्रीणि शतानि च । मनोविदामथ दश, सहस्राण्यवधिस्पृशाम् ॥ ३८॥ शतास्त्रयोविंशतिश्च, स्युश्चतुर्दशपूर्विणाम् । सहस्राश्च नव प्रोक्ता, वादिनां षट्शताधिकाः ॥ ३९॥ सहस्राः षोडश शतं, चाष्टाढ्यं वैक्रियस्पृशः । सूर्याख्यो गणभृन्मुख्यो, रतिसंज्ञा प्रवर्तिनी ॥४०॥ नृपश्चाजितसेनाख्यः, प्रभुभक्तिपरायणः । यक्षश्च कुसुमो नीलवर्णो हरिणवाहनः ॥४१॥ अभयं च फलं चायमपसव्ये करदये । नकुलं चाक्षसूत्रं च, धत्ते वामे चतुर्भुजः ॥४२॥ युग्मम्। देवी भवेदच्युताख्या, श्यामाख्येयं मतान्तरे । चतुर्भुजा श्यामवर्णा, भाखरा नरवाहना ॥ ४३ ॥ युक्तं वरबाणाभ्यां, स्याद्दक्षिणकरद्वयम् । कार्मुकाभययुक्तं च, वाममस्याः करद्वयम् ॥४४॥ युग्मम् ॥ इति पद्मप्रभः॥
विजये रमणीयाख्ये,धातकीखण्डमण्डने। प्राग्विदेहेषु च शुभापुर्या नन्दनरेश्वरः॥४५॥ संयम प्रतिपद्याभृत् , सचारिदमनादुरोः। षष्ठे ग्रैवेयके देवोऽष्टाविंशत्यब्धिजीवितः॥४६॥काशीदेशे वाराणस्यां, प्रतिष्ठनृपतेस्ततः ।। | राज्यां पृथिव्यां तनयः, श्रीसुपार्श्वजिनोऽभवत् ॥४७॥ भाद्रमासेऽष्टमी कृष्णा, ज्येष्ठे च द्वादशी सिता। ज्येष्ठे त्रयोदशी शुक्ला, कृष्णा षष्ठी च फाल्गुने ॥४८॥ श्यामा च सप्तमी भाद्रे, कल्याणतिथयः क्रमात् ।
Jain Educatio
n
al
For Private Personel Use Only
O
jainelibrary.org