SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ३२ सर्गे ॥५०३॥ चतुर्यु भं विशाखा स्यादनुराधा च पञ्चमे ॥ ४९ ॥ सैकोनविंशतिदिना, मासा गर्भस्थितिर्नव । तुलाराशिश्च । पद्मप्रभसुविज्ञेयो, लाञ्छनं खस्तिकं प्रभोः॥५०॥ अभूत्सुपार्थो नवभिर्वार्चिकोटिसहस्रकैः । विंशतिपूर्वलक्षोनैः, पाचौं श्रीपद्मप्रभमोक्षतः॥५१॥ सहस्रमब्धिकोटीनां, विंशत्या पूर्वलक्षकैः । अशिष्यताधिकं तुर्यारकस्य प्रभुज-1 न्मनि ॥५२॥ शुभपार्श्वः सुपार्श्वः स्यान्मातुर्गर्भस्थिते प्रभौ । सुपार्श्वताऽभवद्देहे, ततोऽयं तादृशाह्वयः॥५३॥ मातुरेवं फणशय्यास्वप्नात्मोक्ताः फणाः प्रभोः । एको वा पञ्च नव वा, संप्रदायविशारदैः॥५४॥ तथोक्तं सुपार्श्वचरित्रे पद्मानन्दे-"फणिन्येकफणे पश्चफणे नवफणेऽपि च । सुप्त खप्ने प्रभौ गर्भस्थिते माता स्वमैक्षत ॥ ५५ ॥” पृथ्व्या स्वप्नेक्षितं तादृक्सप॑ शीर्षोपरि स्थितम् । शक्रो विचक्रे समवसरणेषु सदा विभोः ॥५६॥ पूर्वाणां पञ्च लक्षाणि, कौमार्येऽथ नरेन्द्रता । पूर्वाङ्गविंशतियुताः, पूर्वलक्षाश्चतुर्दश ॥ ५७॥ एकं विंशतिपू-18 ङ्गिन्यूनं च पूर्वलक्षकम् । श्रामण्यं तत्र छाद्मस्थ्यं, मासा नव विभोः स्मृताः ॥ ५८॥ विंशतिः पूर्वलक्षाणि,8 सर्वमायुरभूद्विभोः। अभूच वपुरोन्नत्यं, विभोश्चापशतद्वयम् ॥ ५९॥ मनोहरा स्थाच्छिविका, ददौ प्रथम-10 पारणम् । महेन्द्रः पाडलीखण्डे, शिरीषो ज्ञानपादपः॥६०॥ गणेन्द्राः पञ्चनवतिलक्षाणि त्रीणि साधवः ।। २५ लक्षाश्चतस्रः साध्वीनां, सहस्रस्त्रिंशताऽधिकाः॥६१॥ सहस्राः सप्तपञ्चाशल्लक्षे दे श्रावकोत्तमाः । सह- ५०३॥ स्राणि विनवतिः, श्राद्धीलक्षचतुष्टयम् ॥३२॥ एकादश सहस्राणि, केवलज्ञानशालिनाम् । पश्चाशानि शतान्येकनवतिश्च मनोविदाम् ॥६३ ॥ अवधिज्ञानभाजांच, सहस्रा नव कीर्तिताः। खगोचरानुसारेण, २८ in Education on For Private & Personal Use Only jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy