Book Title: Kumarpal Prabandh Author(s): Chaturvijay Publisher: Jain Atmanand Sabha View full book textPage 3
________________ ॥ अहम् ॥ ॥ कुमारपालप्रबन्धप्रस्तावना ॥ - -- इह खल्वनादिजिनेन्द्रशासने जैनधर्मसमाराधनसमुपार्जितप्रबलपुण्यप्राप्तैहिकसुखसन्ततिसंभारभासुराः सदाचरणोपचीयमानकुन्देन्दुधवलकीर्तिकौमुदीधवलिताखिलदिग्वलयाः प्रचण्डभुजबलाकम्पितनिखिलभुवनाद्भुतसुभटवृन्दाः प्रतिपन्नपारमेश्वरीपञ्चव्रतीप्रतिपालनप्रचण्डपराक्रमपराजितपरीसहचमूचक्राः सुरासुरकृतातिघोरासह्योपसर्गवातैरपि सुपर्वपर्वतवत्स्थिरस्थामानो दृढधर्माणो गुणभूरयो भूरयो महात्मानोऽभूवन् , तेषां जगजनमनोरञ्जकान्यनेकानि चारुचरित्राणि पूर्वमहर्षिभी रचितानि परीवृत्त्यन्ते, परं प्रतिसमयहीयमानबुद्धिबलशरीरसामर्थ्यादिवैभवे करालकलिकालकवलीकृतसंख्यातीतसत्पुरुषेऽस्मिन्नवसर्पिणिकालेऽपि जिनशासनविशालविहायस्तलविभासनभास्कराः धर्मकर्मणि दृढनिश्चयाः सूरिशेखरा जावडभावडाभूविमलमन्त्रीश्वरप्रमुखाः श्रद्धालवश्चानेके संजाताः सन्तीति विदितमस्ति, तथाऽपि पूर्वोत्तमपुरुपानन्दकामदेवाद्याचरितश्राद्धधर्मादप्यतिशायिसम्यक्त्वमूलद्वादशव्रतपरिपालनदृढनिश्चयस्य संप्राप्तसमग्रगूजरावन्यवनिपालप्रभुत्वस्य निरतिचारचारुचारित्राचाराचरणचणश्रीमद्देवचन्द्राचार्यविनेयावतंसकलिकालसर्वज्ञश्रीमद्हेमचन्द्राचार्यसूरिपङ्गवप्रतिबोधितस्य परनारीसहोदरपरमार्हतराजर्षिविचारचतुरमुखसंप्राप्तबिरुदगरीष्ठस्य श्रीकुमारपालदेवस्य तथा श्रीमहेमचन्द्राचार्यस्यापि सद्भूतगुणोत्कीर्तनोत्पन्ननिरुपमभक्तिभरसमुल्लसितमानसैर्महोपाध्यायश्रीजिनमण्डनगणिभिः १ श्रीहे JainEducation For Private Personel Use Only ww.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 238