Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 12
________________ कुमारपाल स चातुलबलपराक्रमः प्रतापाक्रान्तसकलसीमालभूपालः स्वबलेन लापाकं नृपं जितवान् । तत्स्वरूपं यथा-परमारवंशे। प्रबन्धः । कीर्तिराजसुता कामलता । शैशवे सखीभिः सह रममाणाऽन्धकारे प्रासादस्तम्भान्तरितं फूलहडाभिधं पशुपालं वृत्त्वा(ता)। ततः कतिपयैवर्षेः प्रधानवरेभ्यो दीयमाना पतिव्रता व्रतपालनाय तमेवोपथमे । तयोः पुत्रो लाषाकः । स च कच्छाधिपः सर्वतोऽप्यजेयः । एकादशकृत्वस्त्रासितमूलराजसैन्यः । एकदा कपिलकोटे स्थितो मूलराजेन रुद्धो द्वन्द्वयुद्धं कुर्वाणस्तस्याजेयतां दिनत्रयेण विमृश्य तुर्ये दिने निजकुलदैवतमनुस्मृत्य ततोऽवतीर्णदैवतकलया लापाको निजघ्ने । तस्याजौ भूप-18 तितस्य वातचलिते श्मश्रुणि पदं स्पृशन मूलराजस्तजनन्या पतिव्रतातीव्रतनिष्ठया लूतारोगेण भवदश्या विनश्यन्तु, इति शप्तः । मूलराजः पञ्चपञ्चाशद्वर्षाणि राज्यं कृत्वा एकदा सान्ध्यनीराजनानन्तरं ताम्बूले कृमिदर्शनाद्गजादिदानं दत्वा संन्यासपूर्व दक्षिणचरणाङ्गुष्ठे वह्निमोचनं कृत्वाऽष्टादशप्रहरैः परलोकमगात् । ततो वर्षत्रयोदशं १३ चामुण्डराजराज्यम् । षण्मासान ६ वल्लभराजराज्यम् । एकादश वर्षाणि ११ षण्मासान् ६ दुर्लभराजराज्यम् । स स्वपुत्रं श्रीभीमं राज्ये न्यस्य स्वयं वैराग्यवान् तीर्थयात्रां कुर्वन् मालवके गतः। श्रीमुञ्जेन छत्रादिकं मुश्च युद्धं वा कुरु, इत्युक्तो धर्मान्तरायं मत्वा प्रशमवान् कापटिकवेषेण यात्रां कृत्वा परलोकमसाधयत् । तत्स्वरूपं भीमेन ज्ञातम् । ततः प्रभृति राजद्वयविरोधः। भीमस्य वृद्धा राज्ञी वकुलदेवी तस्याः पुत्रः क्षेमराजः; द्वितीया उदयमती तस्याः सुतः कर्णदेवः । तौ परस्परं प्रीतिभाजौ यथा रामलक्ष्मणौ । अन्यदा कर्णमात्रा तोषितेन भीमेन लघोरपि कर्णस्य राज्यं प्रतिपन्नम् । द्विचत्वारिंशद्वर्षाणि राज्यं कृत्वा भीमे दिवं गते सति ॥ ३ ॥ 26 in Education intentana For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 238