Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 11
________________ दीसइ विवहचरियं, जाणिजइ सुयणदुजणविसेसो । अप्पाणं च कलिज्जइ, हिंडिजइ तेण पुहवीए ॥१॥ इति विचार्य देशान्तरेषु परिभ्रमन् देवपत्तने सोमनाथयात्रां कृतवान् । तत्र च स्वमे त्वया पत्तने गत्वा सामन्तसिंहभगिनीलीलादेवीपाणिग्रहः कार्यः, इति सोमनाथवचसा श्रीपत्तने समायातः। सामन्तसिंहनृपं वाहकेली कुर्वन्तं दृष्ट्वाऽश्वघाते राज्ञा दत्ते राजकुमारोऽनवसरदत्तेन कशाघातेन पीडितो हाहेति शब्दमकरोत् । राज्ञा कारणं पृष्टोऽवदत् , देव ! | अश्वे कृतशोभनगतौ कशाघातो मम मर्माभिघातः संजातः। ततो राज्ञा तस्यार्पितोऽश्वः। तेन चावशिक्षाकुशलेन दर्शितं वाहकेली कौतुकम् । जातस्तयोः सदृशो योगः। यतः "अश्वः शस्त्रं शास्त्र, वाणी वीणा नरश्च नारी च । पुरुषविशेष प्राप्ताः, भवन्त्ययोग्याश्च योग्याश्च ॥१॥" ततः सामन्तसिंहेन नृपेणाचारादिभिर्महत्कुलमाकलय्य____ "अभयंताण वि नजइ, माहप्पं सुपुरिसाण चरिएणं । किं बुलंति मणीओ, जाउ सहस्सेहिं घिप्पंति ॥१॥" इति संचिन्त्य राजकुमारस्य महताग्रहेण लीलादेवीनाम्नी स्वभगिनी ददे । अन्यदा कालान्तरे साऽऽपन्नसत्त्वा जाता। तस्या अकाण्डमरणे सचिवैरुदरं विदार्य कर्षितमपत्यम् । मूलनक्षत्रे जातत्वान्मूलराजोऽयमिति नाम कृतम् । लोकेऽयो. निसंभवत्वेन च चमत्कारकारी । तजन्मतो राज्यादिवृद्धिं दृष्ट्वा मदमत्तेन सामन्तसिंहेन स राज्येऽभिषिच्यते, गतमदेन ते चोत्थाप्यते । तदादिचापोत्कटानां दानमुपहासाय जातं लोके । 'यदुत चाउडानीदाति' । एकदा मदमत्तेन स्थापितो राज्ये मूलराजः । तेन च विकलोऽयं मातुलः, इति विनाशितो गृहीतं स्वयमेव राज्यम् । ९९८ वर्षे जातोराज्याभिषेकः। -STOCCASSROOMSAMACANCY Jan Education Intematonal For Private 3 Personal Use Only www.ainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 238