Book Title: Kumarpal Prabandh Author(s): Chaturvijay Publisher: Jain Atmanand Sabha View full book textPage 7
________________ ॥ अहम् ॥ ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरचरणकमलेभ्यो नमः ॥ महोपाध्यायश्रीजिनमण्डनगणिकृतः कुमारपालप्रबन्धः। ACCUSAUTE ॐ नमः श्रीमहावीरजिनेन्द्राय परात्मने । परब्रह्मस्वरूपाय जगदानन्ददायिने ॥१॥ सार्वाः सर्वेऽपि कुर्वन्तु करस्थाः सुखसंपदः । स्वनामस्थापनाद्रव्यभावैः पावितविष्टपाः ॥२॥ जीयात्स श्रीगुरुः सूर्यः सदाऽभ्युदयभासुरः । यस्य वाचःप्रभाः शश्वद्विश्वभासनलालसाः ॥३॥ सुमनःसुमनोभृङ्गी संगीतगुणवैभवा । सरस्वती जगन्माता पुनीयान्मे सरस्वतीम् ॥ ४ ॥ भूवासवा बभूवांसो भूयांसोऽपि प्रभावकाः। श्रावकाः श्रेणिकाद्याः श्रीजिनाज्ञापालकाः परम् ॥५॥ जगदत्यद्भुतामारिकारकत्वादिकैगुणैः । कुमारक्ष्मापतेः कोऽपि तुलां प्राप न भूपतिः ॥ ६ ॥ युग्मम् ॥ उक्तं च" आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरा-दब्दान्येव चतुर्दश प्रसृमरी मारि निवायौंजसा । कीर्तिस्तम्भनिभाँश्चतुर्दशशतीसंख्यान् विहारास्तथा, कृत्वा निर्मितवान् कुमारनृपतिजैनो निजैनोव्ययम्" ॥१॥ KARALISASI Jain Education Intematon For Private Personel Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 238