Book Title: Khambat no Prachin Jain Itihas
Author(s): Narmadashankar T Bhatt
Publisher: Atmanand Janma Shatabdi Smarak Trust

View full book text
Previous | Next

Page 251
________________ ૧૯૬ ખંભાતને પ્રાચીન જૈન ઇતિહાસ-પરિશિષ્ઠ. इत्यभूतामुभे भार्ये द्वयोधिवयोस्तयोः । ज्यायसो मेघजीत्यासीत सूनुः कामो हरेरिव ॥ २८ ॥ युग्मम् ॥ सुस्निग्धौ मधुमन्मथाविव मिथो दस्राविव प्रोल्लसद्रूपौ ख्यातिभृतौ धनाधिपसतीनाथाविव प्रत्यहं । अन्येधुवहदिभ्यसभ्यसुभगं श्रीस्तंभतीर्थ पुरं प्राप्तौ पुण्यपरंपराप्रणयिनौ तौ द्वावपि भ्रातरौ ।२९/ तत्र तो धर्मकर्माणि कु णौ स्वभुजार्जितां। श्रियं फलवती कृत्वा प्रसिद्धि प्रापतुः परां ॥ ३० ॥ काबिल्लदिक्पतिरकब्बरसार्वभौमः स्वामी पुनः परतकालनृपः पयोधेः। कामं तयोरपि पुरः प्रथिताविमौ स्तस्तत्तदिशोरसदृशोरनयोः प्रसिद्धिः ॥ ३१ ॥ - तेषां च हीरविजयव्रतिसिंधुराणां तेषां पुनर्विजयसेनमुनीश्वराणां । वाग्भिKधाकृतसुधाभिरिमौ सहोदरौ द्राग द्वावपि प्रमुदितौ सुकृते बभूवतुः ॥ ३२ ॥ श्रीपार्श्वनाथस्य च वर्द्धमानपभोः प्रतिष्ठां जगतामभिष्टां । घनैधनैः कारयतः स्म बंध तौ वार्खिपाथोधिकलामितेऽन्दे १६४४ ॥३३॥ श्रीविजयसेनमूरिनिर्ममे निर्ममेश्वरः । इमां प्रतिष्ठां श्रीसंघकैरवाकरकौमुदीं ॥ ३४ ॥ चिंतामणेरिवात्यर्थ चिंतितार्थविधायिनः । नामाम्य पार्श्वनाथस्य श्रीचिन्तामणिरित्यभूत् ॥ ३५ ॥ ___ अंगुलैरेकचत्वारिंशता चिंतामणेः प्रभोः । संमिता शोभते मूर्तिरेषा शेषाहिसेविता ॥ ३६ ।। __ सदैव विध्यापयितुं प्रचंड-मयप्रदीपानिव सप्त सान् । योऽवस्थितः सप्त फणान् दधानो विभाति चिंतामणिपाश्वनाथः ॥ ३७ ॥ लोकेषु सप्तस्वपि सुप्रकाशं किं दीपदीपा युगपद्विधातुं । रेजुः फणाः सप्त यदीयमूर्ध्नि मणित्विषा ध्वस्ततमःसमूहाः ॥ ३८ ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268