Book Title: Khambat no Prachin Jain Itihas
Author(s): Narmadashankar T Bhatt
Publisher: Atmanand Janma Shatabdi Smarak Trust

View full book text
Previous | Next

Page 253
________________ ૧૯૮ ખંભાતને પ્રાચીન જૈન ઈતિહાસ-પરિશિષ્ઠ. शोभंते दश दतिनः । युगपजिनसेवायै दिशामीशा इवाययुः ॥५६॥ यत्र भूमिगृहे भांति स्पष्टमष्ट मृगारयः । भक्तिभाजामष्टकर्मगजान् हंतुमिवोत्सुकाः ॥ ५७ ॥ श्रीस्तंभतीर्थपूर्भमिभामिनीभालभूषणं । चैत्यं चिंतामणेर्वीक्ष्य विस्मयः कस्य नाभवत ॥ ५८ ॥ एतौ नितांतमतनुं तनुतः प्रकाशं यावत् स्वयं सुमनसां पथि पुष्पदंतौ । श्रीस्तंभतीर्थधरणीरमणीललाम तावचिरं जयति चैत्यमिदं मनोज्ञं ॥५९।। श्रीलाभविजयपंडिततिलकैः समशोधि बुद्धिधनधुर्यैः। लिखिता च कीर्तिविजयाभिधेन गुरुबांधवेन मुदा ॥६० ॥ वणिनीव गुणाकीर्णा सदलंकृतिवृत्तिभाग् । एषा प्रशस्तिरुत्कीर्णा श्रीधरेण मुशिल्पिना ॥६१॥ श्रीकमलविजयकोविदशिशुना विबुधेन हेमविजयेन । रचिता प्रशस्तिरेषा कनीव सदलंकृति यति ॥ ६२ ॥ इति परीक्षकप्रधान प० वजिआ प० राजिनामसहोदर निििपत श्रीचिंतामणिपार्श्वजिनपुंगवप्रासादप्रशस्तिः संपूर्णा । भद्रं भूयात् ॥ ॐ नमः । श्रीमद्विक्रमनृपातीत संवत १६४४ वर्षे प्रवर्त्तमान शाके १५०९ गंधारीय प. जसिआ तद्भायो जसमादे संप्रति श्रीस्तंभतीर्थवास्तव्यतत्पुत्र प० विजिआ प० राजिआभ्यां वृद्धभ्रातृभार्या विमलादे लघुभ्रातृभार्या कमलादे वृद्धभ्रातृपुत्र मेघनी तद्भार्या मयगलदेप्रमुखनिजपरिवारयुताभ्यां श्रीचिंतामणिपाश्वनाथश्रीमहावीरप्रतिष्ठा कारिता श्रीचिंतामणिपाश्वचैत्यं च कारितं । कृता च प्रतिष्ठा सकलमंडलाखंडलशाहिश्रीअकबरसन्मानित श्रीहोरविजयसूरीशपट्टालंकारहारसदृशैः शाह श्रीअकबरपर्षदि प्राप्तवर्णवादैः श्रीविजयसेनमूरिभिः॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268