Book Title: Karmprakrutau Uday Author(s): Yashovijay, Malaygiri Publisher: ZZZ Unknown View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsuri Gyanmandi EDIOCatara द्रष्टव्यम्, उदयोदीरणयोः सहभावित्वात् । तथाहि-पत्रोदयस्तत्रोदीरणा, यत्रोदीरगा तत्रोदयः । किं सर्वत्राप्येवम् ? इति चेत् ,अत आहमुक्त्वा एकचत्वारिंशत्प्रकृतीः । तासामुदीरणामन्तरेणापि कियत्कालमुदयस्य प्राप्यमाणत्वात् । तथाहि-ज्ञानावरणपश्चकदर्शनावरणचतु. ष्टयान्तरायपश्चकसंज्वलनलोभवेदत्रयसम्यक्त्वमिथ्यात्वरूपा विंशतिप्रकृतीः स्वस्वोदयपर्यवसाने आवलिकामा कालमधिकं वेदयन्ति, उदीरणामन्तरेणापि केवलेनोदयेनावलिकामानं कालमनुभवन्तीत्यर्थः। तच्चावलिकामानं त्रयाणां वेदानां मिथ्यात्वस्य चान्तरकरणस्य प्रथमस्थितौ आवलिकाशेषायाम् , शेषाणां तु कर्मणां स्वस्वसत्तापर्यवसाने । तथा चतुर्णामप्यायुषां स्वस्वपर्यवसाने आवलिकामात्र कालमुदय एव भवति, नोदीरणा। मनुष्यायुर्वेदनीययोर्वाऽप्रमत्ता-अप्रमत्तसंयतप्रभृतय उदीरणामन्तरेण केवलेनैवोदयेन वेदयन्ते । तथा तनुपर्याप्ताः शरीरपर्याप्त्या पर्याप्ताः सन्तो द्वितीयसमयादारभ्य शरीरपर्याप्त्यनन्तरसमयादारभ्येन्द्रियपर्याप्तिचरमसमयं यावदुदी. रणामन्तरेणापि केवलेनैवोदयेन निद्राः पश्चापि वेदयन्ते । तथा मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्युच्चैर्गोत्ररूपा नव प्रकृतीरयोगिकेवलिन उदीरणामन्तरेण स्वं कालं यावद केवलेनैवोदयेन वेदयन्ते, केचित्तीर्थकरमपि ये तीर्थकृतः॥१.२-३।। (उ०)-तदेवमभिहितानि करणानि । साम्प्रतमुद्देशक्रमप्राप्तमुदयमभिधित्सुराह-उदय उदीरणातुल्यः । उदीरणायाः प्रकृत्यादयो ये भेदाः प्रागुक्ता या च साचादिपरूपणा यच्च स्वामित्वं तत्सर्वमन्यूनानतिरिक्तमुदयेऽपि ज्ञातव्यं, उदयोदीरणयोः सहभावित्वात् । तथाहियत्रोदयस्तत्रोदीरणा यत्रोदीरणा तत्रोदय इति, तकि सर्वत्राप्ययं नियम? इति चेत्, प्रायो नियम एवेत्याशयं हृदि व्यवस्थाप्य व्यभिचारस्थानव्यवच्छेदं विवक्षुराह-'मोत्तूण एगचत्ताल' इत्यादि, मुक्त्वा एक चत्वारिंशत्प्रकृतीरुक्तनियमो द्रष्टव्यः, तासामुदीरणामन्तरेणापि कियत्कालमुदयस्य प्राप्यमाणत्वात् । तथाहि-आवरणानि ज्ञानावरगपश्चकदर्शनावरणचतुष्टयरूपाणि, 'विग्ध' त्ति-अन्तराय For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 319