Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
॥५॥
तकमाशो देवलोके देवो जातः, स च तत्र संक्लिष्टो भूत्वा उत्कृष्टां स्थिति बनन् उत्कृष्टं प्रदेशाग्रमुद्वर्तयति, ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषत्पन्नः, तस्य प्रथमसमये प्रागुक्तानां षण्णां कर्मणां जघन्यः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरध्रुवश्च,
प्रदेशोदयः ततोऽन्यः सर्वोऽप्यजघन्यः, सोऽपि तस्य द्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत् । तथा तेषा-121 | मेव षण्णां कर्मणामनुत्कृष्टः प्रदेशोदयस्त्रिधा त्रिप्रकारः, तद्यथा-अनादिध्रुवोध्रुवश्च । तथाहि-अमीषां षण्णां कर्मणामुत्कृष्टः प्रदेशोदयः | प्रागुक्तस्वरूपस्य मुणितकमांशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्य प्राप्यते । स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चानादिः, सदैव भावात्, ध्रुवाध्रुवौ पूर्ववत् । तथा 'मोहे'-मोहनीयेऽजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः, तद्यथा-सादिरनादिधुवोऽध्रुवश्च । तथाहि-क्षपितकमांशस्यान्तरकरणे कृतेऽन्तरकरणपर्यन्तभाविगोपुच्छाकारसंस्थितावलिकामाबदलिकान्तसमये मोहनीयस्य जघन्यः प्रदेशोदयः । स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । सोऽपि | | ततो द्वितीयसमये भवन् सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत् । तथा गुणितकमांशस्य सूक्ष्मसंपरायगुणस्थानका|न्तसमये उत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः। स चोपशमश्रेणीतः प्रतिपततो भवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत् । तथा आयुषश्चत्वारोऽपि भेदा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः ५ साद्यधुवाः, चतुर्णामपि मेदानां यथायोग नियतकालं भावात् । तथा सर्वेषां कर्मणां प्रागुक्तानां षण्णां मोहनीयस्य चोक्तशेषौ विकल्पी) उत्कृष्टजघन्यरूपी साद्यध्रुवौ, तौ च प्रागेव भाविती ॥६॥
॥५॥ (उ०)-उक्तोऽनुभागोदयः,अथ प्रदेशोदयो वक्तुमवसरप्राप्तः । तत्र चेमावर्थाधिकारी-साधनादिप्ररूपगा स्वामित्वं चेति । तत्र
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 319