Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra Aacha www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |णागुरुलघुशुभाशुभज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपाणां सप्तचत्वारिंशत्प्रकृतीनामजघन्यः प्रदेशोद यश्चतुर्विधः साधनादिध्रुवाभ्रुवमेदात्, तथाहि - कश्चित्क्षपितकर्माशो देव उत्कृष्टे संक्लेशे वर्तमान उत्कृष्टां स्थिति बन्नुत्कृष्टं प्रदेशाग्रमुद्रर्तयति, ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषूत्पद्यते, तस्य प्रथमसमये प्रागुक्तानां सप्तचत्वारिंशत्प्रकृतीनां जघन्यः प्रदेशोदयः, नवरमवधिज्ञा|नावरणावधिदर्शनावरणयोर्बन्धावलिकाचरमसमये देवस्य जघन्यः प्रदेशोदयो ज्ञातव्यः, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः, स च द्वितीयसमये भवन् सादिः, तत्स्थानमप्रातस्यानादिः, ध्रुवाभ्रुवौ प्राग्वत् । अभूषामेव सप्तचत्वारिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशोदयस्त्रिप्रकारः, तथाहि - अनादिधुवोऽध्रुवश्चेति । तत्र गुणितकर्माशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः | प्रदेशोदयः, स चैकसामयिक इति साद्यध्रुवः । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः स चानादिः सदाभावात्, ध्रुवाभ्रुवौ प्राग्वत् । तथा मिथ्यात्वे | मिथ्यात्वस्याजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्धा, साद्यनादिधुवाधुत्रभेदात् । तथाहि क्षपितकर्माशस्य प्रथमसम्यक्त्वमुत्पादयतः कृतान्तरकरणस्योपशमिकसम्यक्त्वात्प्रच्युत्य मिध्यात्वं गतस्यान्तरकरणपर्यन्त भावि गोपुच्छाकार संस्थितावलिकामात्र दलिकान्तसमये वर्तमानस्य जघन्यः प्रदेशोदयः, स चैकसामयिक इति साद्यध्रुवः । ततोऽन्यः सर्वोऽप्यजघन्यः सोऽपि ततो द्वितीयसमये भवन् सादिः, | वेदकसम्यक्त्वाद्वा प्रच्यवमानस्य सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाभ्रुवौ प्राग्वत् । तथा मिथ्यात्वस्पोत्कृष्टः प्रदेशोदयस्तदा भवति यदा कविगुणितकमाशो देशविरतिगुणश्रेण्यां वर्तमान एव सर्वविरतिं प्रतिपद्य सर्वविरतिनिमित्तां गुणश्रेणिं करोति तां च कृत्वा | तावद्याति यावद्वयोरपि गुणश्रेण्योर्मस्तके, तत्समये च मिथ्यात्वं गच्छतीति, स चैकसामयिक इति साद्यध्रुवः । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः सोऽपि ततो द्वितीयसमये भवन् सादिः । वेदकसम्यक्त्वाद्वा प्रतिपततः सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाभ्रुवौ प्राग्वत् । तथै For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 319