________________
Shri Mahavir Jain Aradhana Kendra
Aacha
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|णागुरुलघुशुभाशुभज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपाणां सप्तचत्वारिंशत्प्रकृतीनामजघन्यः प्रदेशोद यश्चतुर्विधः साधनादिध्रुवाभ्रुवमेदात्, तथाहि - कश्चित्क्षपितकर्माशो देव उत्कृष्टे संक्लेशे वर्तमान उत्कृष्टां स्थिति बन्नुत्कृष्टं प्रदेशाग्रमुद्रर्तयति, ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषूत्पद्यते, तस्य प्रथमसमये प्रागुक्तानां सप्तचत्वारिंशत्प्रकृतीनां जघन्यः प्रदेशोदयः, नवरमवधिज्ञा|नावरणावधिदर्शनावरणयोर्बन्धावलिकाचरमसमये देवस्य जघन्यः प्रदेशोदयो ज्ञातव्यः, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः, स च द्वितीयसमये भवन् सादिः, तत्स्थानमप्रातस्यानादिः, ध्रुवाभ्रुवौ प्राग्वत् । अभूषामेव सप्तचत्वारिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशोदयस्त्रिप्रकारः, तथाहि - अनादिधुवोऽध्रुवश्चेति । तत्र गुणितकर्माशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः | प्रदेशोदयः, स चैकसामयिक इति साद्यध्रुवः । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः स चानादिः सदाभावात्, ध्रुवाभ्रुवौ प्राग्वत् । तथा मिथ्यात्वे | मिथ्यात्वस्याजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्धा, साद्यनादिधुवाधुत्रभेदात् । तथाहि क्षपितकर्माशस्य प्रथमसम्यक्त्वमुत्पादयतः कृतान्तरकरणस्योपशमिकसम्यक्त्वात्प्रच्युत्य मिध्यात्वं गतस्यान्तरकरणपर्यन्त भावि गोपुच्छाकार संस्थितावलिकामात्र दलिकान्तसमये वर्तमानस्य जघन्यः प्रदेशोदयः, स चैकसामयिक इति साद्यध्रुवः । ततोऽन्यः सर्वोऽप्यजघन्यः सोऽपि ततो द्वितीयसमये भवन् सादिः, | वेदकसम्यक्त्वाद्वा प्रच्यवमानस्य सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाभ्रुवौ प्राग्वत् । तथा मिथ्यात्वस्पोत्कृष्टः प्रदेशोदयस्तदा भवति यदा कविगुणितकमाशो देशविरतिगुणश्रेण्यां वर्तमान एव सर्वविरतिं प्रतिपद्य सर्वविरतिनिमित्तां गुणश्रेणिं करोति तां च कृत्वा | तावद्याति यावद्वयोरपि गुणश्रेण्योर्मस्तके, तत्समये च मिथ्यात्वं गच्छतीति, स चैकसामयिक इति साद्यध्रुवः । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः सोऽपि ततो द्वितीयसमये भवन् सादिः । वेदकसम्यक्त्वाद्वा प्रतिपततः सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाभ्रुवौ प्राग्वत् । तथै
For Private and Personal Use Only