Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साद्यनादिप्ररूपणा द्विविधा - मूलप्रकृतिविषयो तर प्रकृतिविषया च । तत्र मूलप्रकृतिविषय साद्यनादिप्ररूपणार्थमाह- मोहनीयायुर्वजनां पण्णां कर्मणामजघन्यः प्रदेशोदयश्चतुर्विधः । तथाहि - सादिरनादिध्रुवोऽध्रुवश्च । तत्र कश्चित् क्षपितकर्माशो दिवि देवो जातस्तत्र च संक्लिष्टो भूत्वोत्कृष्टां स्थितिं बध्नन्नुत्कृष्टं प्रदेशाप्रमुद्वर्तयति, ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषूत्पन्नः, तस्य प्रथमसमये प्रागुक्तानां षण्णां कर्मणां जघन्यः प्रदेशोदयः, स चैकसामयिक इति सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यजघन्यः, सोऽपि तद्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाधुवौ पूर्ववत् । तथा तेषामेव षण्णां कर्मणामनुत्कृष्टः प्रदेशोदयस्त्रिधा - अनादिर्भुवोऽध्रुवश्चेति । तथाहि - अमीषां षण्णां कर्मणामुत्कृष्टप्रदेशोदयो गुणितकर्माशस्य स्वस्वोदयान्ते गुणश्रेणी शिरसि वर्तमानस्य लभ्यते, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चानादिः सदैव भावात्, ध्रुवाभ्रुवौ प्राग्वत् । तथा मोहे-मोहनीयेऽजघन्योऽनुत्कृष्टश्व प्रदेशोदयश्चतुर्विधः साद्यनादिधुवाध्रुव भेदात्, तथाहि - क्षपितकर्माशस्यान्तरकरणे कृतेऽन्तरकरणपर्यन्तभावि गोपुच्छाकारसंस्थितावलिका मात्र दलिकान्तसमये मोहनीयस्य जघन्यः प्रदेशोदयः, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः, सोऽपि ततो द्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्य त्वनादिः, ध्रुवाधुवौ प्राग्वत् । तथा गुणितकर्माशस्य सूक्ष्मसम्पराय गुणस्थानकान्तसमये उत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशमश्रेणीतः प्रतिपततो भवन् सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाभ्रुवौ प्राग्वत् । तथाऽऽयुपश्चत्वारोऽपि भेदा उत्कृष्टानुत्कृष्टजघन्याजधन्यरूपाः साद्यध्रुवाः, चतुर्णामध्येतद्द्भेदानां यथायोगं प्रतिनियतकाल एव भावात् । तथा प्रागुक्तानां षण्णां मोहनीयस्य चेति सर्वेषां कर्मणामुक्तशेषौ विकल्पायुत्कृटजघन्यरूपौ साद्यध्रुवौ तौ च प्रागेव भावितौ ।। ६ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 319