Book Title: Karmprakrutau Uday Author(s): Yashovijay, Malaygiri Publisher: ZZZ Unknown View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit SSCDCGODGce भन्नई* ॥४॥ VI (मलय०)-तदेवमुक्तः प्रकृत्युदयः, सम्पति स्थित्युदयमाह-ठिइउदउ'त्ति । इह द्विविध उदयः-स्थितिक्षयेण प्रयोगेण च । तत्रा | स्थितिरबाधाकालरूपा तस्याः क्षयेण द्रव्यक्षेत्रकालभवभावरूपाणामुदयहेतूनां सम्प्राप्तौ सत्यां यः खभावत उदयः प्रवर्तते स स्थिति| क्षयेणोदयः। यः पुनस्तस्मिन्नुदये प्रवर्तमाने सति उदीरणाकरणरूपेण प्रयोगेण दलिकमाकृष्यानुभवति स प्रयोगोदयः । तथा चाह-18 | स्थित्युदयोऽपि स्थितिक्षयात् प्रयोगतश्च भवति । स च द्विधा उत्कृष्टो जघन्यश्च । तत्रोत्कृष्टः स्थित्युदीरणात उदयस्थित्याऽभ्यधिकः । तथाहि-उत्कृष्टायां स्थितौ बध्यमानायामबाधाकालेऽपि प्राग्बई दलिकमस्तीति कृत्वा बन्धावलिकायामतीतायामनन्तरस्थितौ विपाकोदयेन वर्तमान उदयावलिकात उपरितनीः सर्वा अपि स्थितीरुदीरयति, उदीर्य च वेदयते, ततो बन्धावलिकोदयावलिकाहीनायाः शेषायाः सर्वस्या अपि स्थितेरुदयोदीरणे तुल्ये, वेद्यमानायां च स्थितावुदीरणा न प्रवर्तते, किन्तूदय एव केवलः, ततो वेद्यमानया समयमात्रस्थित्याऽभ्यधिकः स्थित्युदीरणात उत्कृष्टस्थित्युदयः। बन्धावलिकोदयावलिकाहीनश्च उत्कृष्टः स्थित्युदयः उदयोत्कृष्ट| बन्धानां वेदितव्यः। शेषाणां तु यथायोग्यम् । तत्राप्युक्तनीत्या उदयस्थित्याभ्यधिकोऽवगन्तव्यः। तथा इस्वो-जघन्यः स्थित्यु. | दयः षट्त्रिंशत्प्रकृतीनामेका समयमात्रा उदयस्थितिः। एतदुक्तं भवति-पत्रिंशत्प्रकृतीनां जघन्यः स्थित्युदयः समयमात्रै कस्थित्युदयप्रमाणो वेदितव्यः, समयमात्रा चैका स्थितिः चरमसमयस्थितिरवसेया । षट्त्रिंशत्यकृतयश्च प्रागुक्ता एवैकचत्वारिंशत्प्रकायो निद्रापञ्चकव्यतिरिक्ता वेदितव्याः । निद्रापञ्चकस्य धुंदीरणाया अभावेऽपि शरीरपर्याप्त्यनन्तरं केवलोदयकालेऽपवर्तनाऽपि प्रवर्तते, तत एका स्थि * इतोऽस्याः पश्चात्तनीगाथायाश्च चूर्णिपाठो न विद्यते अस्मत्पार्श्ववर्तिनीषु प्रतीषु । RADHOROSSDIदलब For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 319