________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
SSCDCGODGce
भन्नई* ॥४॥ VI (मलय०)-तदेवमुक्तः प्रकृत्युदयः, सम्पति स्थित्युदयमाह-ठिइउदउ'त्ति । इह द्विविध उदयः-स्थितिक्षयेण प्रयोगेण च । तत्रा | स्थितिरबाधाकालरूपा तस्याः क्षयेण द्रव्यक्षेत्रकालभवभावरूपाणामुदयहेतूनां सम्प्राप्तौ सत्यां यः खभावत उदयः प्रवर्तते स स्थिति| क्षयेणोदयः। यः पुनस्तस्मिन्नुदये प्रवर्तमाने सति उदीरणाकरणरूपेण प्रयोगेण दलिकमाकृष्यानुभवति स प्रयोगोदयः । तथा चाह-18 | स्थित्युदयोऽपि स्थितिक्षयात् प्रयोगतश्च भवति । स च द्विधा उत्कृष्टो जघन्यश्च । तत्रोत्कृष्टः स्थित्युदीरणात उदयस्थित्याऽभ्यधिकः । तथाहि-उत्कृष्टायां स्थितौ बध्यमानायामबाधाकालेऽपि प्राग्बई दलिकमस्तीति कृत्वा बन्धावलिकायामतीतायामनन्तरस्थितौ विपाकोदयेन वर्तमान उदयावलिकात उपरितनीः सर्वा अपि स्थितीरुदीरयति, उदीर्य च वेदयते, ततो बन्धावलिकोदयावलिकाहीनायाः शेषायाः सर्वस्या अपि स्थितेरुदयोदीरणे तुल्ये, वेद्यमानायां च स्थितावुदीरणा न प्रवर्तते, किन्तूदय एव केवलः, ततो वेद्यमानया समयमात्रस्थित्याऽभ्यधिकः स्थित्युदीरणात उत्कृष्टस्थित्युदयः। बन्धावलिकोदयावलिकाहीनश्च उत्कृष्टः स्थित्युदयः उदयोत्कृष्ट| बन्धानां वेदितव्यः। शेषाणां तु यथायोग्यम् । तत्राप्युक्तनीत्या उदयस्थित्याभ्यधिकोऽवगन्तव्यः। तथा इस्वो-जघन्यः स्थित्यु. | दयः षट्त्रिंशत्प्रकृतीनामेका समयमात्रा उदयस्थितिः। एतदुक्तं भवति-पत्रिंशत्प्रकृतीनां जघन्यः स्थित्युदयः समयमात्रै कस्थित्युदयप्रमाणो वेदितव्यः, समयमात्रा चैका स्थितिः चरमसमयस्थितिरवसेया । षट्त्रिंशत्यकृतयश्च प्रागुक्ता एवैकचत्वारिंशत्प्रकायो निद्रापञ्चकव्यतिरिक्ता वेदितव्याः । निद्रापञ्चकस्य धुंदीरणाया अभावेऽपि शरीरपर्याप्त्यनन्तरं केवलोदयकालेऽपवर्तनाऽपि प्रवर्तते, तत एका स्थि
* इतोऽस्याः पश्चात्तनीगाथायाश्च चूर्णिपाठो न विद्यते अस्मत्पार्श्ववर्तिनीषु प्रतीषु ।
RADHOROSSDIदलब
For Private and Personal Use Only