Book Title: Jina Stuti Chaturvinshtika
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 247
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४१) આકાશનું જેણે એવું, તથા અખંડિત-અવિચ્છિન્ન રહેલું અને સારભૂત એવું જે જિનેંદ્રશ્રેણીનું તેજ-પ્રભાવ સર્વ સ્થળે પ્રસરી ગયું છે તે જિનેશ્વરની પંક્તિ સંસાર વિષે રખડવારૂપ અમારા પરિશ્રમ–આયાસને હર અર્થાત્ દૂર કરે છે ૮૬ जिनवाण्या महत्त्वम् । कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभायात्रपा मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका । अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां, मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका ॥ ८७॥ टीका-कुर्वाणेति- आनत्या' प्रणामेन हेतुना । — जनकृत्तमोहरत ! जनानां भव्यलोकानां कृत्ते-छिन्ने मोहरते-अज्ञानसुरते च येन सः तत्संबोधनम् , ननु भगवतोऽयमपुरुषार्थः ? सुखस्याऽपि क्षतेरितिचेन्न, अतिशयदुःखानुषङ्गतया सुखस्यापिदुःखवद्धेयत्वात् । मधुक्ष्वेडमिश्रितान्नभुक्तित्वसुखवत् । यद्वा कृतं मोहस्य सुखं येनेति विवक्षया न कोऽपि दोषः । 'कृति' संछेदने इत्यस्माद्भूते निष्ठाक्तप्रत्यये कृत्तइतिसिद्धम् । — ईश !' स्वामिन् ! । 'जिनपते ! ' जिनानां पतिस्तत्संबोधनम् जिननाथ ! ' अणुपदार्थदर्शनवशात्' अणवः-अतिसूक्ष्मा ये पदार्था निगोदजीवपरमाण्वादयस्तेषां यद् दर्शन-व्यक्तीकरणं तस्य वशात् स्वायत्तीकरणात् । तदायत्तभावत्त्वात्, हेत्वर्थे पञ्चमी । “प्रमितिविषयाः पदार्थाः” इति वैशेषिकादयः । “ परस्परनिटुंठितक्षणक्षयिलक्षणनिरंशाः परमाणवः" पदार्थाः इति बौद्धाः। ' भास्वत्प्रभायाः' भास्वतो रवेः प्रभाः कान्तिः तस्याः । 'त्रपां' ब्रीडाम् । 'कुर्वाणा' कुरुत इति कुर्वाणाजनयन्ती । ' शस्ता' प्रशस्ता । ' अदरिद्रोहिका' न विद्यन्ते For Private And Personal Use Only

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301