Book Title: Jina Stuti Chaturvinshtika
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६४ )
सतां सर्वदा ॥ ६ ॥
यद्वाक्यामृतपानतोऽक्बर नृपाधीशो दयावानभूद्, भव्यानामुपकारकृद्गुणनिधिः पूज्य: तत्पट्टं स्वपरम्परागतममुं संशोभयामासिवान्, योगीन्द्र श्रुतबुद्धिसागरगुरुः सूरीश्वरो विश्रुतः । येनाsरच्यत धर्मतत्त्वनिचिता ग्रन्थावली शोभना, यत्सद्देशनयाऽभवन् भुवि गणाः सद्धर्मनिष्ठाः सताम् ॥७॥ यत्पादाम्बुजषट्पदः शुचिगुणः श्रीवाचकानां धुरि,
विख्यातोऽजितसागरः श्रुतचणः कीर्त्यां कविख्यातिभाक् । शिष्याऽध्यापनताकृते कृतमतिश्चारित्रिणामप्रणीः,
काव्यालङ्कृतिकोविदो नयविदां मान्यो मनीषावताम् ||८|| येनाऽभ्यर्थनया स्वशिष्य समुदायस्य श्रुतध्यायिन -
ष्टीकेयं सरलाभिधा विरचिता श्रीशोभनाख्यस्तुतेः । नानाऽलंकृतिसम्पदाश्रितपातान्वितायाः शुभा,
वृत्तीनामनुसारिणी परकृतानामन्वयार्थानुगा भव्यश्राद्धकदम्बराजितपथे प्रह्लादने पत्तने,
चातुर्मास्यकृते स्थिति कृतवता येनोपकारक्षमा | अक्षाऽश्वाऽङ्केशशाङ्कुसंमितवरे (१९७५) संवत्सरे श्रावणे, सप्तम्यां रविवासरे शुभतिथौ पूर्णीकृता स्वाति ॥ १० ॥ गच्छतः स्खलनं वाऽपि भवत्येव प्रमादतः ।
For Private And Personal Use Only
॥ ९ ॥
॥ ११ ॥
हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः सज्जनास्तुष्टिमन्तः स्युः, खलाः क्रुध्यन्तु मा मयि । प्रीत्या भीत्या क्रमादेता-नशेषान् प्रणमाम्यहम् ॥ १२ ॥ सवृत्तिकैपा मुनिशोभनस्तुतिः, सतां सदाऽऽनन्द विधायिनी जने ।
आभानुचन्द्रं विलसत्प्रभावा, विलासमासादयतु] प्रकामम्
॥ १३ ॥

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301