Book Title: Jina Stuti Chaturvinshtika
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 278
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७२ ) रङ्गभङ्गः स्फुटनयमयस्तीर्थनाथेन चूला मालापीनः शमदमवताऽसङ्गतोपायहृद्यः। सिद्धान्तोऽयं भवतु गदितः श्रेयसे भक्तिभाजा मालापी नः शमदमवता सङ्गतोऽपायहृद् यः ३-मन्दा. सा त्वं वज्राङ्कुशि ! जय मुनौ भूरिभक्तिः सुसिद्ध प्राणायामेऽशुचि मतिमतापाऽऽपदन्ताऽवलानाम् । दत्से वज्राङ्कुशभृदनिशं दर्पहन्त्री प्रदत्त प्राणा या मे शुचिमतिमता पापदन्तावलानाम् ४-मन्दा. ९ श्रीसुविधिजिनस्तुतयः । यस्यातनोद् देवततिर्महं सु प्रभावऽतारे शुचि मन्दरागे । इहास्तु भक्तिः सुविधौ दृढा मे प्रभावतारे शुचिमन्दरागे ॥१॥---+उपजातिः अभूत् प्रकृष्टोपशमेषु येषु, न मोहसेना जनिताऽऽपदेभ्यः । युष्मभ्यमाप्ता प्रथितोदयेभ्यो नमो ऽहसेना ! जनितापदेभ्यः ॥ २ ॥-उप० वाणी रहस्यं दधती प्रदत्त-- महोदयाऽवद्भिरनीति हारि । जीयाजिनेन्द्रैर्गदिता त्रिलोकी-- महो दयावद्भिरनीतिहारि ॥ ३ ॥–उप० + तौ जो गाविन्द्रवज्रा, जतजा गावुपेन्द्रवज्रा, एतयोः परयोश्च सङ्कर उपजातिः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301