________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७२ ) रङ्गभङ्गः स्फुटनयमयस्तीर्थनाथेन चूला
मालापीनः शमदमवताऽसङ्गतोपायहृद्यः। सिद्धान्तोऽयं भवतु गदितः श्रेयसे भक्तिभाजा
मालापी नः शमदमवता सङ्गतोऽपायहृद् यः ३-मन्दा. सा त्वं वज्राङ्कुशि ! जय मुनौ भूरिभक्तिः सुसिद्ध
प्राणायामेऽशुचि मतिमतापाऽऽपदन्ताऽवलानाम् । दत्से वज्राङ्कुशभृदनिशं दर्पहन्त्री प्रदत्त
प्राणा या मे शुचिमतिमता पापदन्तावलानाम् ४-मन्दा.
९ श्रीसुविधिजिनस्तुतयः । यस्यातनोद् देवततिर्महं सु
प्रभावऽतारे शुचि मन्दरागे । इहास्तु भक्तिः सुविधौ दृढा मे
प्रभावतारे शुचिमन्दरागे ॥१॥---+उपजातिः अभूत् प्रकृष्टोपशमेषु येषु,
न मोहसेना जनिताऽऽपदेभ्यः । युष्मभ्यमाप्ता प्रथितोदयेभ्यो
नमो ऽहसेना ! जनितापदेभ्यः ॥ २ ॥-उप० वाणी रहस्यं दधती प्रदत्त--
महोदयाऽवद्भिरनीति हारि । जीयाजिनेन्द्रैर्गदिता त्रिलोकी--
महो दयावद्भिरनीतिहारि ॥ ३ ॥–उप० + तौ जो गाविन्द्रवज्रा, जतजा गावुपेन्द्रवज्रा, एतयोः परयोश्च सङ्कर उपजातिः ।
For Private And Personal Use Only