________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७१) जिनवरवृषभास्ते नाशयन्तु प्रवृद्धं,
दुरितमदरतापध्यानकान्ताः सदाशाः ॥२॥-मालिनी मुनिततिरपठद् यं वर्जयन्ती हतोद्यत्
___ तमसमहितदानासाऽऽधिमानन्दितारम् । समयमिह भजाऽऽप्तेनोक्तमुच्चैर्दधानं,
तमसम ! हितदात्रा साधिमानं दितारम् ॥३॥-मालिनी अवतु करिणि याता सार्हतां प्रौढभक्त्या,
मुदितमकलितापा या महामानसी माम् । वहति युधि निहत्यानीकचक्रं रिपूणा--
मुदितमकलितापाया महामानसीमाम् ॥४॥--मालिनी
८ श्रीचन्द्रप्रभजिनस्तुतयः। तुभ्यं चन्द्रप्रभ ! भवभयाद् रक्षते लेखलेखा
नन्तव्याऽपापमदमहते सन्नमोऽहासमाय !। श्रेय श्रेणी भृशमसुमतां तन्वते ध्वस्तकामा-- नन्तव्यापाऽपमद ! महते सन्नमोहाऽसमाय ॥१॥
* मन्दाक्रान्ता ( ४, ६, ७) श्रेयो दत्तां चरणविलुठन्नम्रभूपालभूयो---
मुक्तामाला समदमहिता बोधिदानामहीना । मोहापोहादुदितपरमज्योतिपां कृत्स्नदोषै
मुक्ता मालाऽसमदमहिता वोऽधिदानाऽऽमहीना २-मन्दा.
* मो भ्नौ तौ गौ मन्दाक्रान्ता घचैः।
For Private And Personal Use Only