________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १७३ )
जगद्गतिर्विभ्र (दु)मकान्तकान्तिः, करोऽतुलाभं शमदम्भवत्याः । ददन्नतानां ज्वलनायुधे ! नः,
करोतु लाभं शमदं भवत्याः ॥ ४ ॥ -- उपेन्द्रवज्रा
१० श्रीशीतलजिनस्तुतयः ।
जयति शीतलतीर्थपतिर्जने, वसुमती तरणाय महोदधौ ।
ददति यत्र भवे चरणग्रहे,
वसुमतीतरणाय महोदधौ ॥ १ ॥ - - द्रुतविलम्बितम्
वितर शासनभक्तिमता जिना --
वलि ! तमोहरणे सुरसम्पदम् ।
अधरयच्छिवनाम महात्मना
वलितमोहरणे ! सुरसं पदम् ॥ २ ॥ - - द्रुत ०
भगवतोऽभ्युदितं विनमाऽगमं,
जन ! यतः परमापदमादरात् । इह निहत्य शिवं जगदुन्नतिं,
Acharya Shri Kailassagarsuri Gyanmandir
जनयतः परमापदमादरात् || ३ || - - द्रुत ०
स्तवरवैस्त्रिदशैस्तव सन्ततं,
न परमच्छवि ! मानवि ! लासिता ।
न घनशास्त्र कलाऽप्यरिदारिणी,
न परमच्छविमान विलासिता ॥ ४ ॥ - - द्रुत०
For Private And Personal Use Only