Book Title: Jina Stuti Chaturvinshtika
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 289
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८३ ) जीयासुर्जिनपुङ्गवा जगति ते राज्यर्द्धिषु प्रोल्लसद् धामानेकपराजितासु विभयाऽसन्नाभिरामोदिताः। योधालीभिरुदित्वरा न गणिता यैः स्फातयः प्रस्फुरद् धामानेकपराजितासु विभया सन्नाभिरामोदिताः ॥२॥ या गॉव जनस्य पङ्कमखिलं पूता हरत्यञ्जसा, भारत्यागमसङ्गता नयतताऽमायाचिता साधुना । अध्येतुं गुरुसन्निधौ मतिमता कर्तुं सतां जन्मभी भारत्यागमसंगता न यततामायाचिता साऽधुना॥३॥-शा० व्योम स्फारविमानतूरनिनदैः श्रीनेमिभक्तं जनं, प्रत्यक्षामरसालपादपरतां वाचालयन्ती हितम् । दद्यानित्यमिताऽऽम्रलुम्बिलतिकाविभ्राजिहस्ताऽहि तं, प्रत्यक्षामरसालपादपरताऽम्बा चालयन्तीहितम् ॥ ४॥-शा० २३ श्रीपार्श्वजिनस्तुतयः सौधे सौधे रसे स्वे रुचिररुचिरया हारिलेखारिलेखा, पायं पायं निरस्ताघनयघनयशो यस्य नाथस्य नाथ । पार्वं पार्था तमोद्रौ तमहतमह ! न क्षोभजालं भजाऽलं, कामं कामं जयन्तं मधुरमधुरमाभाजनत्वं जन ! त्वम् ॥१॥: -स्रग्धरा तीर्थे तीर्थेशराजी भवतु भवतुदऽस्तारिभीमारिभीमा लीकालीकालकूटाऽकलितकलितयोस्सा समूहे समूहे । या मायामानही भवविभवविदां दत्तविश्वासविश्वाऽनाप्तानाप्ताभिशङ्का विमदविमदनत्राऽसमोहाऽसमोहा ॥ २ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301