________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८३ ) जीयासुर्जिनपुङ्गवा जगति ते राज्यर्द्धिषु प्रोल्लसद्
धामानेकपराजितासु विभयाऽसन्नाभिरामोदिताः। योधालीभिरुदित्वरा न गणिता यैः स्फातयः प्रस्फुरद्
धामानेकपराजितासु विभया सन्नाभिरामोदिताः ॥२॥ या गॉव जनस्य पङ्कमखिलं पूता हरत्यञ्जसा,
भारत्यागमसङ्गता नयतताऽमायाचिता साधुना । अध्येतुं गुरुसन्निधौ मतिमता कर्तुं सतां जन्मभी
भारत्यागमसंगता न यततामायाचिता साऽधुना॥३॥-शा० व्योम स्फारविमानतूरनिनदैः श्रीनेमिभक्तं जनं,
प्रत्यक्षामरसालपादपरतां वाचालयन्ती हितम् । दद्यानित्यमिताऽऽम्रलुम्बिलतिकाविभ्राजिहस्ताऽहि तं, प्रत्यक्षामरसालपादपरताऽम्बा चालयन्तीहितम् ॥ ४॥-शा०
२३ श्रीपार्श्वजिनस्तुतयः सौधे सौधे रसे स्वे रुचिररुचिरया हारिलेखारिलेखा,
पायं पायं निरस्ताघनयघनयशो यस्य नाथस्य नाथ । पार्वं पार्था तमोद्रौ तमहतमह ! न क्षोभजालं भजाऽलं, कामं कामं जयन्तं मधुरमधुरमाभाजनत्वं जन ! त्वम् ॥१॥:
-स्रग्धरा तीर्थे तीर्थेशराजी भवतु भवतुदऽस्तारिभीमारिभीमा
लीकालीकालकूटाऽकलितकलितयोस्सा समूहे समूहे । या मायामानही भवविभवविदां दत्तविश्वासविश्वाऽनाप्तानाप्ताभिशङ्का विमदविमदनत्राऽसमोहाऽसमोहा ॥ २ ॥
For Private And Personal Use Only