________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८२) दधद् भासां चक्रं रविकरसमूहादिव महाविभावर्यो नाशं कमनलसमानन्दितमदः ॥ १॥
शिखरिणी ( ६, ११) भवोद्भूतं भिन्द्यात् भुवि भवभृतां भव्यमहिता,
जिनानामायासं चरणमुदिताऽऽली करचितम् । शरण्यानां पुण्या त्रिभुवनहितानामुपचिता
जिनानामायासंचरणमुदितालीकरचितम् ॥ २ ॥ जिनानां सिद्धान्तश्चरणपटु कुर्यान् मम मनो
ऽपराभूतिलॊके शमहितपदानामविरतम् । यतः स्याचक्रित्वत्रिदशविभुताद्या भवभृतां,
परा भूतिलोकेशमहितपदानामविरतम् ॥ ३ ॥ गजव्यालव्याघ्रानलजलसमिद्वन्धनरुजो
ऽगदाऽक्षाऽऽली काली नयमवति विश्वाऽसमहिता । जनैर्विश्वध्येया विघटयतु देवी करलसद्
गदाक्षाऽलीकाऽलीनयमवति विश्वासमहिता ॥ ४ ॥
२२ श्रीनेमिजिनस्तुयः त्वं येनाक्षतधीरिमा गुणनिधिः प्रेम्णा वितन्वन् सदा,
नेमेऽकान्त ! महामनो ! विलसतां राजीमतीरागतः । कुर्यास्तस्य शिवं शिवाङ्गज ! भवाम्भोधौ न सौभाग्यभाग, नेमे ! कान्तमहामनाविल ! सतां राजीमतीरागतः ॥१॥
. शार्दूलविक्रीडितम्
+ यम्नस्भल्गाः शिखरिणी चैः।
For Private And Personal Use Only