________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८१ ) २० श्रीमुनिसुव्रतजिनस्तुतयः । तव मुनिसुव्रत ! क्रमयुगं ननु कः प्रतिभा
वनधन ! रोहितं नमति मानितमोहरणम् । नतसुरमौलिरत्नविभया विनयेन विभावनघ! नरो हितं न मतिमानितमोहरणम् ॥ १॥
*अवितथम् अवति जगन्ति याशु भवती मयि पारगता
वलि ! तरसेहितानि सुरवारसभाजितया । दिशतु गिरा निरस्तमदना रमणीहसिताs
वलितरसे हितानि सुरवा रसभाजि तया ॥२॥ यतिभिरधीतमहितमतं नयवज्रहता
घनगमभङ्गमानमरणैरनुयोगभृतम् । अतिहितहेतुतां दधदपास्तभवं रहितं,
घनगमभङ्गमानम रणैरनु योगभृतम् ॥३॥ वितरतु वाञ्छितं कनकरुग् भुवि गौर्ययशो
हृदिततमा महाशुभविनोदिविमानवताम् । रिपुमदनाशिनी विलसितेन मुदं ददती,
हृदि ततमामहाऽऽशु भविनो दिवि मानवताम् ॥ ४ ॥
२१ श्रीनमिजिनस्तुतयः । यतो यान्ति क्षिप्रं नमिरघवने नात्र तनुते,
विभावर्योऽनाशंकमनलसमानं दितमदः। * जजजा ल्गाववितथम् ।
For Private And Personal Use Only