Book Title: Jina Stuti Chaturvinshtika
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 288
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८२) दधद् भासां चक्रं रविकरसमूहादिव महाविभावर्यो नाशं कमनलसमानन्दितमदः ॥ १॥ शिखरिणी ( ६, ११) भवोद्भूतं भिन्द्यात् भुवि भवभृतां भव्यमहिता, जिनानामायासं चरणमुदिताऽऽली करचितम् । शरण्यानां पुण्या त्रिभुवनहितानामुपचिता जिनानामायासंचरणमुदितालीकरचितम् ॥ २ ॥ जिनानां सिद्धान्तश्चरणपटु कुर्यान् मम मनो ऽपराभूतिलॊके शमहितपदानामविरतम् । यतः स्याचक्रित्वत्रिदशविभुताद्या भवभृतां, परा भूतिलोकेशमहितपदानामविरतम् ॥ ३ ॥ गजव्यालव्याघ्रानलजलसमिद्वन्धनरुजो ऽगदाऽक्षाऽऽली काली नयमवति विश्वाऽसमहिता । जनैर्विश्वध्येया विघटयतु देवी करलसद् गदाक्षाऽलीकाऽलीनयमवति विश्वासमहिता ॥ ४ ॥ २२ श्रीनेमिजिनस्तुयः त्वं येनाक्षतधीरिमा गुणनिधिः प्रेम्णा वितन्वन् सदा, नेमेऽकान्त ! महामनो ! विलसतां राजीमतीरागतः । कुर्यास्तस्य शिवं शिवाङ्गज ! भवाम्भोधौ न सौभाग्यभाग, नेमे ! कान्तमहामनाविल ! सतां राजीमतीरागतः ॥१॥ . शार्दूलविक्रीडितम् + यम्नस्भल्गाः शिखरिणी चैः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301