Book Title: Jina Stuti Chaturvinshtika
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 283
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७७ ) सदसिरक्षतिभा सुरवा जिनं, जगदिता फलकेषुधनुर्धरा । जयति येयमिह प्रणताऽच्युता, सदसि रक्षति भासुरवाजिनम् ॥ ४ ॥ १५ श्रीधर्मजिनस्तुतयः। श्रीधर्म ! तव कर्मद्रु-वारणस्य सदायते ! । स्तवं कर्तुं कृतद्वेषि-वारणस्य सदा यते ॥ १॥-*अनुष्टुप् गिरा त्रिजगदुद्धारं, भाऽसमाना ततान या । श्रिया जीयाजिनाली सा, भासमानाऽतताऽनया ॥२॥ वचः पापहरं दत्त-सातं केवलिनोदितम् । भवे त्राणाय गहने, सातङ्केऽवलिनोदितम् ॥३॥ दधुः प्रसादाः प्रज्ञप्त्याः, शक्तिमत्या जिता दराः। तस्या यया द्विषां सर्वे, शक्तिमत्याजितादराः ॥४॥ १६ श्रीशान्तिजिनस्तुतयः। अस्याभूद् व्रतघाति नातिरुचिरं 'यद्येव संसेवना दक्षोदं भरतस्य वैभवमयं साराजितं तन्वतः । लिप्सोः (प्सो !) शान्तिजिनस्य शासनरुचिं सौख्यं जयद् ब्रह्म भोदक्षोऽदम्भरतस्य वै भवमयं साराजितं तन्वतः ॥१॥-- शार्दूलविक्रीडितम् * अनुष्टुप् जातौ वक्त्रं । + ' यच्छ्रेयसे सेवना' इति पाठान्तरम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301