________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७७ ) सदसिरक्षतिभा सुरवा जिनं,
जगदिता फलकेषुधनुर्धरा । जयति येयमिह प्रणताऽच्युता,
सदसि रक्षति भासुरवाजिनम् ॥ ४ ॥
१५ श्रीधर्मजिनस्तुतयः। श्रीधर्म ! तव कर्मद्रु-वारणस्य सदायते ! । स्तवं कर्तुं कृतद्वेषि-वारणस्य सदा यते ॥ १॥-*अनुष्टुप् गिरा त्रिजगदुद्धारं, भाऽसमाना ततान या । श्रिया जीयाजिनाली सा, भासमानाऽतताऽनया ॥२॥ वचः पापहरं दत्त-सातं केवलिनोदितम् । भवे त्राणाय गहने, सातङ्केऽवलिनोदितम् ॥३॥ दधुः प्रसादाः प्रज्ञप्त्याः, शक्तिमत्या जिता दराः। तस्या यया द्विषां सर्वे, शक्तिमत्याजितादराः ॥४॥
१६ श्रीशान्तिजिनस्तुतयः। अस्याभूद् व्रतघाति नातिरुचिरं 'यद्येव संसेवना
दक्षोदं भरतस्य वैभवमयं साराजितं तन्वतः । लिप्सोः (प्सो !) शान्तिजिनस्य शासनरुचिं सौख्यं जयद् ब्रह्म भोदक्षोऽदम्भरतस्य वै भवमयं साराजितं तन्वतः ॥१॥--
शार्दूलविक्रीडितम् * अनुष्टुप् जातौ वक्त्रं । + ' यच्छ्रेयसे सेवना' इति पाठान्तरम् ।
For Private And Personal Use Only