________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७६) महायतरसा हिता जगति वोऽधिदाना महो
दया भवतु दान्तताऽसकलहाऽसमानाऽऽभया ॥२॥-पृथ्वी क्रियादरमनन्तरागततयाचितं वैभवं,
मतं समुदितं सदा शमवताऽभवेनोदितम् । क्रियादरमनन्तरागततया चितं वैभवं,
मतं समुदितं सदाशमवता भवे नो दितम् ॥३॥-पृथ्वी प्रभा वितरतादरं सुरभियाततारोहिणीहिताऽऽशुगुरु चाऽपराजितकराशमारोपिता । प्रभावितरताऽऽदरं सुरभियाऽतता रोहिणी हिताऽऽशु गुरुचापराजितकरा शमारोपिता ॥४॥-पृथ्वी
१४ श्रीअनंतजिनस्तुतयः। कलितमोदमनं तरसाऽऽश्रये,
शिवपदे स्थितमस्तभवापदम् । त्रिदशपूज्यमनन्तजितं जिनं,
कलितमोदमनन्तरसाश्रये ॥१॥-द्रुतविलम्बितम् जिनवरा गततापदरोचितां,
प्रददतां पदवीं मम शाश्वतीम् । दुरितहृवचना न कदाचना
जिनवरागततापदरोचिताम् ॥२॥-द्रुत० सुरसमानसदक्षरहस्य ! ते,
मधुरिमागम ! सोऽस्तु शिवाय नः । जगति येन सुधाऽपि धनप्रभा
सुरसमानसदक्षर ! हस्यते ॥३॥-द्रुत०
For Private And Personal Use Only