________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १७८ )
येषां चेतसि निर्मले शमवतां मोक्षाध्वनो दीपिकाप्रज्ञालाभवतां क्रिया सुरुचिताऽरं भावनाऽऽभोगतः । ते श्रीमजिनपुङ्गवा हतभया नित्यं विरक्ताः सुखं, प्रज्ञाला भवतां क्रियासुरुचितारम्भावना भोगतः ॥ २ ॥ मिध्यादृष्टिमतं यतो ध्रुवमभृत् प्रध्वस्तदोषात् क्षिता-वाऽऽचारोचितमानमाऽस्यमदभावारिताऽपाप ! हे । तं सिद्धान्तमभङ्गभङ्गकलितं श्रद्धाय चित्ते निजे, चाचा रोचित ! मानमारयमदं भावारितापापहे ॥ ३ ॥ शत्रूणां घनधैर्यनिर्जितभया त्वां शासनखामिनी, पातादाऽऽनतमानवा सुरहिता रुच्या सुमुद्राऽऽजिषु । श्रीशान्तिक्रम युग्मसेवनरता नित्यं हतव्यग्रता - पातादानतमा नवासु रहिता रुच्या सुमुद्राजिषु ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१७ श्री कुन्थुजिनस्तुतयः ।
स जयति जिनकुन्थुलभ संक्षोभहीनोमहति सुरमणीनां वैभवे सन्निधाने । इह भवति विना यं मानसं हन्त केषां,
महति सुरमणीनां वैभवे सन्निधाने ||१|| - मालिनी ० जयति जिनततिः सा विश्वमाधातुमीशा
sमदयतिमहिताऽरं किन्न रीणाssमपाशम् ? | विलसितमपि यस्या हन्त नैव स्म चित्तं,
मदयति महि तारं किन्नरीणामपाशम् ॥ २ ॥
अवतु गदितमाप्तैस्त्वा मतं जन्मसिन्धौ, परमतरण हेतुश्छायया भासमानैः ।
For Private And Personal Use Only